________________
ज्ञानप्रमोदगणिनिबद्धा अचमत्कारिता वा स्यादुक्तान्तर्भाव एव च ।
अलक्रियाणामन्यासामनिवन्धे निबन्धनम् ॥१५०॥ अन्यासामपरासामाङ्क्रयाणां अनिबन्धेऽकथने । निबध्नाति निबन्धनं, निमित्तभेदमेतद् द्वितयमाह । चमत्कुर्वन्तीत्येवंशीलाः चमत्कारिण्यः, तासां भावः चमत्कारिता । त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्य, इत्यनेन डीनिवृत्तिः । न चमत्कारिता अचमत्कारिता, स्याद्भवेद्वतेि पक्षान्तरे, यद्वा तासां तदन्योन्यं, मिथो यत्रोत्पाद्योत्पादकता भवेदिति लक्षणात् । यथा-- रजनीशशिनोमिथः शोभाकारित्वात् अन्योन्यालङ्कारः ।
सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता । तत्सामग्ऱ्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ।। [प्र. रु. अ. प्र.] बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यः तदीयस्तिरस्कारः प्रत्यनीकं तदुच्यते ।। [प्र. रु-अ. प्र.] विषयो विषयी यत्र सादृश्यात्कविसम्मतात् ।। सन्देहगोचरौ स्यातां सन्देहालङ्कृतिश्च सा ॥ [प्र. रु.-अ. प्र.) सोऽप्यन्ते निश्चयान्तोक्तेनिश्चयान्तः ।। मीलन वस्तुना यत्र वस्त्वन्तरनिगृहनम् । [प्र. रु.-अ. प्र.] इति मीलनालङ्कारः । सा समालङ्कृतियोगे वस्तुनोहें तुरूपयोः । इति । [प्र. स.-अ. प्र.] एकत्र वस्तुनो भावान्ननु वस्त्वन्यदापतेत् ।।
किमुतन्याय तत्साम्यादापत्तिरलक्रिया ।। [प्र. रु.-अ. प्र.] आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामालङ्कारः इति । [अ. स. १.१६; अ र. सूत्र २८] यथा
क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत् ।
इन्द्रनीलमिदं ख्यातमिति लक्षणसम्भवात् ॥ रूपके त्वपरंजनत्वमात्रमिति भेदः ।
स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । [प्र. रु.- अ. प्र. ] अन्यच्च
नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती ।
स्वभावोक्तिश्च जातिश्च स्वभावाख्यानमीदृशम् ॥इति।। [ का. द. २.८] उत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वेनोपमानिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलकारः ।
सति हेतावतद्रपः स्वीकारः स्यादतद्गुणः । [प्र. रु. -अ. प्र.] इत्यतद्गुणालङ्कारः।
तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहुति:61 । [ का. द. १४१ ]
तदुदात्तं भवेद्यत्र समृद्ध वस्तु वर्ण्यते । [प्र. रु -अ. प्र] आधाराधेययोरानुरूप्याद्भाविको मतः । 61. मूले- 'अन्यहीयगुणग्रहः' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org