________________
ज्ञानप्रमोदिकावृत्तिः सौपर्णेयः नित्यं की दशो भाति ? प्रकटमुत्तरं दानवारिः इहार्थवशात् श्रीपतिः, तेन विराजितः शोभितः दानवारिविराजितः, इति गूढागूढमुन्तरम् । यदुक्तं
उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥१॥ [ रु. का. ७.९३ ] अन्यच्चोक्तं
यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनः । विपरीतफलोत्पत्तेरानर्थक्योपदेशनम् ॥२॥ [का. द. २.१४८] गच्छेति वक्तुमिच्छामि त्वत्प्रिय मत्प्रियैषिणम् ।
निर्गच्छति मुखाद्वाणी ‘मा गा' इव, करोमि किम् ॥३॥१४८।। [का. द. २.१४७] अथ सङ्करमुदाहरति
वंभंडसुत्तिसंपुडमुत्तियमणिणो पहासमूह व्य ।
सिरिबाहड त्ति तणओ आसि बुहो तस्स सोमस्स ॥१०९।। तस्य सोमस्य बाहड इत्याहूवयः तनयोऽङ्गजः आसोदभवत् । किलक्षणस्य सोमस्य ? शोचति शुक्तिः, 'हमुषीति कित् तिः' हे. उ. ६५१]; तस्याः सम्पुटं मुक्तास्फोटसम्पुटं, ब्रह्माण्डमेव शुक्तिसम्पुटं, ब्रह्माण्डशुक्तिसम्पुटमेवेति वा । तथा मुक्तैव मौक्तिकं, मणति महार्घतां मणिः, तत्र मणिः हारान्तर्नायकमणिः मौक्तिकमणिः । तत्र मौक्तिकमणिरिव ब्रह्माण्डशुक्तिसम्पुटमौक्तिकमणिः, तस्य । बाह्डः सुतः क इव ? प्रभासमूह इव । यद्वा ब्रह्माण्डशुक्तिसम्पुटमौक्तिकमणेरतेजःपुञ्ज इव । पुनः किभूतः ? धः विचक्षणः । इह सम्प्रदायतश्चासी श्रीश्रीमालविमलकुलशिरोमणि. सोनगिरान्वयालङ्करणखरतरगच्छाम्नायधर्मवम॑धुरन्धरो बाहडनामा सङ्घपतिरभवत् । तथा च प्रतिपादयांचकार श्री सारस्वतव्याकरणग्रन्थ सत्कमण्डनाहूवयटीकाकारः
उद्यत्सान्द्रजिनेन्द्रसुन्दरपदद्वन्द्वप्रसादोद्भवत् भूयोऽभीष्टपुमर्थसाधकजनुः श्रीमालमालामणिः । सोऽयं सोनगिरान्वयः खरतरः श्रीबाहडस्योन्मज:
श्रीसारस्वतमण्डनं रचयति मामण्डनं मण्डनः ।। इतीनं वृत्तं फलात्फलोत्पत्तिपदार्थावगमनं शेषवदनुमानम् कार्यवैशिष्ट्यगम्यत्वात्कारणवैशिष्टयस्ये. त्यवसेयम । अत्रैतद ग्रन्थकारेण स्वकीयाभिधानान्वितसङकराल कायदाहरणमदिम । ब्रह्माण्डाक्तिसम्पुटमौक्तिकमणेरित्यत्र रूपकं, प्रभासमूह इवेत्युत्पक्षा। युक्तोऽयमर्थ. । सामस्य हमरश्मेः तनूजो बुध एव भवतीति लेषालङ्कारः । श्रीबाहड इतिप्रभृति शेष जातिः, अन्त्यक्रियादोपकं चेत्येषा. मलकाराणां योगे सकरालङ्कारः । यदुक्तं---
मिश्रालङ्काराणां तिलतन्दुलवच्च दुग्धजलवद्वा ।
व्यक्ताव्यक्तांशत्वात्सङ्कर उत्पद्यते द्वेधा ।।१।। [रु. का. १०.२५] तथा चावादि माघसर्वकषावृत्तौ-"अत्र वागोशानां मूकीकर गान्मूकानां प्रवाकरणाच्च शक्यवस्तुकरणरूपा विशेषालङ्कारः, स्वरूपभेदासम्बन्ध सम्बन्धरूपातिशयोक्तिरिति तयोः सक्करः ॥१४९।। 60. योगवशादतेषां इति प्रथमादे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org