________________
८४
ज्ञानप्रमोदगणिनिवदा
अधुना प्रश्नोत्तरसङ्करयोर्लक्षगद्वितयं क्रमेणाह
प्रश्ने यत्रोत्तरं व्यक्तं गूढं वाऽप्य थवोभयम् ।
प्रश्नोत्तर यथोक्तानां संसर्ग सङ्करं विदुः ॥१४५॥ यत्र यस्मिन्नलकारे प्रच्छनं प्रश्नः, 'यजिस्वपोति नः [हे. व्या. ५.३.८५], तस्मिन् प्रश्नेऽनुयोजने, उत्तरन्त्यस्मादुत्तरं, ' उदो वा तरप', उत्तरति पलायते सन्देहादिरनेनेत्युत्तर वा। स्वरान्तत्वादल । लिङ्गस्य लोकाश्रयत्वात् क्लीबत्वम् । प्रतिवचः व्यज्यते व्यक्त स्फुटम् , अपेभिन्नक्रमत्वाद्वा पक्षान्तरे । गृह्यते स्म गढं गुप्तं च भवति । अथवा उभयं व्यक्त गढं स्यात् । प्रश्नश्च उत्तरं च प्रश्नोत्तरे ते विद्यते य स्मन् । यद्वा प्रश्नस्य प्रश्ने वा उत्तर यस्मिन् स तथा । तं प्रश्नोत्तरनामानमलङ्कारः मलङ्कार विदो विदुः । तथा प्रागुक्तानामालङ्काराणामेकत्र मीलनं सङ्कराभिधानमलङ्कार' च तज्ज्ञाः विदुः ।।१४।। एतत् दृष्टान्तत्रितयं क्रमेण व्यञ्जयति
अस्मिन्नपारसंसारसागरे मज्जतां सताम् ।
किं समालम्बनं साधो, रागद्वेषपरिक्षयः ॥१४६॥ हे साधो, सानोति साधुः सम्यग्दर्शनादिभिः, परमपदं साधयतीति वा, तस्य आमन्त्रणे हे साधो । अस्मिन् पार्यते समाप्यतेऽत्रेति पारं, परं तीरं वा, न विद्यते पारं यस्य सोऽपारः; संसारं सागर इव संसारसागरः, स चासौ संसारसागरश्च अपार संसारसागरः, तस्मिन । अलब्धमध्यभवाब्धी मज्जन्तीति मज्जन्तः, तेषां मज्जतां बुडतां सतां विद्यमानानां प्राणिनां कि समालम्बनं व्यक्तम् ? उत्तर-रागद्वेपरिक्षयः। रागो माया, लोलेच्छात्मको द्वेषः मानमन्युलक्षणः, तयोः परिक्षयः तदोषा. भाव इत्यर्थः ॥१४६।।
क्व वसन्ति श्रियो नित्यं भूभृतां वद कोविद ।
असावतिशयः कोऽपि यदुक्तमपि नोह्यते ॥१४७॥ हे कोविद, त्वं वद बहि । भूभृतां राज्ञां, श्रियः कमलाः क्व वसन्ति कस्मिन् स्थिरीभवन्ति । असौ
ऽप्यतिशयः आधिक्यं यद्यस्मादुदितमपि स्वल्पकालताप्रतिपादनार्थे नोह्यते न सम्भाव्यते । उत्तरं गढं; असौ कृपाणे वसन्ति, श्रियो हि खड्गाक्रान्ता वीरप्रिया भवन्तीति भावः ॥१४७॥
किमैभं श्लाघ्यमाख्याति ? पक्षिणां कः ? कुतो यशः ।
गरुडः कीदृशो नित्यं दानवारिविराजितः ॥१४८॥ इभस्येदभं गजसम्बन्धिवस्तु । -लाध्यं किम् ? आख्याति गढमुत्तर । यति खण्डयति अनेन दानं, वारीव द्रवीभूतत्वादानवारि मदसलिलम् । प्रशस्यते कः ? आरवः । पच्यते कालेन पक्षः, बहुवचने पक्षाः सन्त्यस्य पक्षीः, तं पक्षिणं निगदति । गुप्तमुत्तरं- वेति गच्छति विः, 'नीवीप्रसृभ्यो डित' इति इ: हे. उ. ६१६] । काश्यपीपालानां यशः कुतः कस्याः स्यात ? गढमुत्तर -अजन्ति अधिक्षिपन्ति अस्यामाजिः, तस्याः । आजितः संगरात् , गरुद्धिः डयते, पृषोदरादित्वात् गरुडः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org