________________
ज्ञानप्रमोदिकावृत्तिः तया बाधिता तर्जिता, कान्तिः त्विट्, यस्य सः मुखप्रभाबाधितकान्तिः । चेत् यदि इत्थं न भवेत, तर्हि अमिन्दुः अब्जान कमलानि, किमिति हेतुप्रश्नार्थे, क्षिणोति क्षणुग हिंसायामिति धातोर्लटिरूप , किं पोज्जासयति संकोचीभावमापादयति इत्यर्थः । हेत्वन्तरालितं विशेषणं ब्रूते । कीदृशान्य. ब्जानि ? लोच्यते आभ्यां लोचने, तस्याः सुन्दर्याः लोचने तल्लोचने, तयोः श्रीविभूषा तथा । हरणं हतिः, तस्याः हातः तल्लोचनश्रीहतिः, तया सापराधानि सागांसि, तल्लोचन श्रीहतिसापराधानि । यो हि यस्य परिकर्मीभवति सः तस्याराति व्यथयति । यदुक्त'
यत्र बलीयः कारणमालोक्य भूतमेव भूतमिति ।
भावीति वा तदन्यत्कथ्यते तदन्यमनुमानम् [6. का. ७.५९] यथा--
वहति यथा मलयमयथा हरितीभवन्ति विपिनानि ।
प्रियसाख, तथैव न चिरादेष्यति तव वल्लभो नूनम् ।।१।१४२॥[रु का. ७.६३] इदानी परिसंख्या लक्षयति
यत्र साधारणं किञ्चिदेकत्र प्रतिपाद्यते ।
अन्यत्र तन्निवृत्त्यै सा परिसंख्योच्यते, यथा ॥१४३॥ यत्र यस्मिन्नलकारे, किञ्चित्साधारणं सह आधारणेन आधारेण वर्तत इति वा साधारणं, एकत्र स्थले प्रतिपाद्यते विवक्ष्यते । अन्यस्मिन्निति अन्यत्र स्थले, तन्निवारणाय स्यात्, बुधैः सा परि. सङ्ख्याह्वाऽलंक्रिया उच्यते । यथेत्यनेन पुरो वृत्ते निर्देक्ष्यते ॥१४३॥
यत्र वायुः परं चौरः पौरसौरभसम्पदाम् ।
युवानश्च तक्रोधादेव बिभ्युर्वधूजनात् ॥१४४॥ तत्र पुरे, लक्ष्म्याः स्तेनः कोऽपि न विद्यते । परं केवलं, यत्र यस्मिन् पुरे, वायुतिः , चौरोऽस्ति । कासाम ? पुरस्य नगरस्येदं पौरं, तस्येदमिति 'अणि' [हे. व्या. ७.४ ५२] वृद्धिः । सुरभेर्भावः सुरभिरेव वा मौरभं, पौरं च सौरभं च पौरसौरभे, तयाः सम्पदः ऋद्धयः, तासां पौरमौरभमम्पदाम् । एतावता यत्र युवान्त स्त्रिया मिश्रीभवान्त इति युवानः, भूयुयुवृषीति वन्'; तरुणाः यौवनस्थाः नराः; वधूश्चासौ जनश्च वधूजनः, तस्माद्वधूजनात् भार्यालोकादेवेत्यवधारणार्थे । बिभ्युः बिभयांचक्रुः, नान्यतः । कीदृशाद्वधूजनात् ? कृतो।वहितः, कोपो येन सः तथा, तस्मात्कृतक्रोधात् । एतेन वीरविशिखपाताभावेऽपि कृद्धाङ्गनापाङ्गविशिखपातात् भीता इव, यद्वा धीरा अपि स्त्रीसन्निकर्षात् विक्रियन्त इत्यावेदितम् । इयताऽन्यसाध्वसं न वर्तते, चौरत्वं सर्वेषां साधारणम् । परं निवेशितमेकस्मिन्पवनेऽभीतत्वं समस्तसामान्यं, परमन्यत्र निवृत्तिः । तथोदितं माघसत्कचतुर्दशसर्गान्तर्वर्ति 'दर्शन' इत्याद्याष्टाचत्वारिंशत्तमकाव्यटीकायाम्। " अत्र दोयतामिति वचसः सं प्रार्थनार्थवर्जनेन । अत्यत्यसजे नार्थता 58 कथनादेकस्यानेकन प्रसक्तावेकत्र नियमनाख्या परिसङ्ख्या ।"
एकस्य वस्तुनः प्राप्तावनेकत्रैकधा यदा ।
एकत्रनियमः सा हि परिसङ्ख्या निगद्यते ॥१॥१४४॥ [प्र. रु.- अ.प्र ] 57. टीकायां तु "वः समर्थनार्थ..." इति । 58. यकायां तु तेनातिसर्जना...' इति । 59. समाना व्याख्या तु । अलङ्कारसर्वस्वे' एकस्याने प्राप्तविकत्रनियमन परिसंख्या ' इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org