SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिबद्धा एतर्हि अनुमान लक्षयति प्रत्यक्षाल्लिङ्गतो यत्र कालत्रितयवर्तिनः । लिङ्गिनो भवति ज्ञानमनुमानं तदुच्यते ॥१३९॥ यत्र यस्मिन्नलङ्कारे, प्रतिगतमक्षमिन्द्रियं प्रत्यक्षं, अक्षेण[ क्ष्णा ? ] प्रतीतं वा, तस्मात्प्रत्यक्षात् । लिङ्ग्यते गम्यते येन तल्लिङ्ग, तस्मात् लिङ्गतोऽनुमानात् कालत्रये वर्तत इत्येवंशील, स तथा । स्य कालत्रितयवर्तिनोऽतीतानागतवर्तमानस्थायिनो लिङ्गिनोऽनुमेयस्य ज्ञानं भवति, तदनुमानमनुमानाह्वयालङ्कारो बुद्धिमद्भिः वर्ण्यते ॥१३९।। अतीतमुदाहरति-- नूनं नद्यस्तदाऽभूवन्नभिषेकाम्भसा विभोः । अन्यथा कथमेतासु जनः स्नानेन शुध्यति ॥१४०॥ नूयते नूनं, निशिनूभ्यां नक्ततनूनौवेत्यम् , निश्चितमवश्यं 'नूनं च निश्चये' इत्यूचुः [अ. चि. ६.१७६] हेमसूरिपादाः । तदा तस्मिन्, जन्मस्तपनसमये, नदन्ति स्रोतांसि तरसा, नद्योगोरादित्वात्ङोप , तटिन्यः । प्रभोः श्रीमदरिष्टनेमेः अभिषेकाम्भसाऽजनि स्नात्रोदकेनाभवन्नासंस्तवेति पाठान्तरेणार्थ. वशाद्विभक्तिपरिणामेन पाठादर्थस्य बलीयस्त्वेन च । हे प्रभो देवाधिदेव, तव जनिमहे इति वा व्याख्येयं व्यतिरेकमाह । अन्येन प्रकारेण अन्यथा, एतासु नदीषु, जनो लोकः, स्नानेन मज्जनेन, कथं शुद्धथति निर्मलीभवति ॥१४०॥ भाव्यनेहसं दृष्टान्तयति जम्भजित ककुभि ज्योतिर्यथा शुभ्रं विजुम्भते । उदेष्यति तथा मन्ये खलः सखि निशाकरः ॥१४१॥ हे सखि, अहमित्थं मन्ये । केन ? आदित्येन, कुरिलतानि भानि नक्षत्राणि अन, तथा तं करोतीति नामधातोः क्वि । ककुप्केनादित्येन स्कुम्नाति द्योतत इति वा स्कुम्भेः सौत्रादीप्त्यर्थाच्च विवप् पृषोदरादित्वाद्वर्णः सलोपः । व्युत्पत्तिरियं कातन्त्रसत्का सर्वधरानुसारेणोदिता प्राप्रणीताऽपि हैमानुसारेण । जम्भते जम्भः, जायते इति वा । 'गदूरमीति भः' ।हे. उ. ३२७] ततस्तं जयतीति जम्भजिदिन्द्रः, तेनोपलक्षिता तस्य वा; ककुप्; जम्भजित् ककुप् , तस्यां प्राच्यां विशि, शुभ श्वेतं ज्योतिस्तेजः, तथा तेन प्रकारेण विजृम्भते प्रकाशीभवति । यथा विप्रयोगवतीना मानायितवत् सन्तापकारित्वाच्च खलः दुर्जनः, निशाकरः चन्द्रः, उदेष्यति उदयं प्राप्स्यति ।।१४१।। वर्तमानसमयमतिदिशति मुखप्रभाबाधितकान्तिरस्याः दोषाकरः किंकरतां बिभर्ति । तल्लोचनश्रीहतिसापराधान्यजानि नोचेत्किमयं क्षिणोति ॥१४२।। दोषाकरो रात्रिकरोऽस्याः वनितायाः मुखस्य 'किंकरोमि' इत्याज्ञां प्रतीक्षते । किंकरः तस्य भावः तत्ता, तां किंकरतां भृत्यतां बिभर्ति दधाति । किविशिष्टो दोषाकरः ? मुखस्य वक्त्रस्य, प्रभा द्युतिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy