SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः उदाहरति- स्वैरं विहरति स्वैरं शेते स्वैरं च जल्पति । भिक्षुरेकः सुखी लोके राजचौरभयोज्ञितः ॥ १३६॥ भिक्षणशीलो भिक्षुः, भिनत्ति सदनुष्ठानेन क्षुधमष्टप्रकारं कर्मेति वा । नात्रैतदर्थंत्राचको भिक्षुर्यतिगृह्यते, किन्तु भिक्षुशब्देन र आदीयते । ततश्चायमर्थः इह लोके एको भिक्षुः द्रमकः सुखो वर्तते । कथमित्याह - स्वमात्मानमीरयतीति स्वैरं 'स्वादीरेरिण्योः इति वृद्धि:' । स्वैरं यथा स्यात्तथा । विहरति विचरति, तथा स्वैरं स्वेच्छया, शेते निद्राति । च पुनः स्वैरं जल्पति । किंभूतः ? राजनीतिज्ञो राजा, परद्रव्यापहारक चौरः तयोर्यद्भयं तेनोज्झितः त्यक्तः, राजचौरभयोज्झितः । तथा चावादि माघसत्कषोडशसर्गान्तर्वर्ति 'सुकुमार' मित्याद्ये कविशतितमवृत्तटीकायां । अत एवाप्रस्तुतसामान्येन प्रस्तुत विशेषप्रतिपत्तिरूपोऽयम प्रस्तुतप्रशंसाभेदः । “ अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अस्तु सेयं सारूप्यादिनियन्त्रितेति ” लक्षणम् [ टीका शिशु. १६.२१] ॥ १३६॥ एकावला लक्षयति पूर्व पूर्वार्थवैशिष्ट्य निष्ठानामुत्तरोत्तरम् । अर्थानां या विरचना बुधैरेकावली मता ॥ १३७॥ पूर्वस्मात्पूर्वः पूर्वपूर्व, स चासावर्थश्च तथा तस्य वैशिष्ट्यं विशेषसाहित्यं, तन्निष्ठाः तदायत्ताः, तेषामर्थानामुत्तरोत्तरं यथा स्यात्तथा । या विशेषेण रचना ग्रन्थनं विरचना, बुधैर्विचक्षण. सा एकावलीत्या ख्याल किया मता भणिता ॥१३७॥ दृष्टान्तयति देशः समृद्धनगरो नगराणि च सप्तभूमिनिलयानि । निलयाः सलीलललना ललनाश्चात्यन्तकमनीयाः ॥ १३८ ॥ | ८१ एतादृशो देशो जनपदोऽस्ति । किंलक्षणः ? सं सम्यक्प्रकारेण रुध्यन्ति स्म रुद्वैराधिक्यमासादयन्ति स्म समृद्वानि । तथाविधानि नगराणि पुराणि विद्यन्ते यस्मिन्नसौ समृद्धनगरः । च पुनः, नश्यन्ति एषु नगराणि जठरे युरे निपात्यते । नगाः सन्त्येषु वा 'मवादित्वाद्व: । 50 न करोऽस्त्येतेषु वा । पुराणि कोशाने ? सप्तभूमयो निलया आवसथा येषु तानि सप्तनिलयानि । च पुनः, निलीयन्ते येषु ते निलयाः आवासाः । किंविधाः ? सह लीलया शृङ्गारचेष्टाविशेषेण वर्तमाना सलोलाः, तादृश्यो ललनाः येषु ते तथा; लन्ति लल्यन्ते वा ललनाः । लड् विलासे, नन्द्या दषु युप्रत्यये । डलयोरेकत्वे ललनाः अङ्गनाश्चात्यन्तकमनीया अत्यन्तकमनोयत्वमासाम् । पतिव्रतानां प्राणेश्वरचिन्तानुवृत्तिधर्मत्वेन चतुःषष्ठिगुणोपेतत्वेन चावशेयम् । तदुक्तं यदुत्तरोत्तरेऽषां स्यात्सर्वपूर्वप्रतिक्रमात् । विशेषकत्वकथनम सावेकावली मता | १|| १३८॥ [ प्र. रु. अ. प्र. ] 56. ' मध्वादेः - हे. व्या. ६.२.७३. Jain Education International For Private & Personal Use Only ११ www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy