________________
८०
ज्ञानप्रमोदगणिनिबदा
अत्युत्कृष्टवस्तूदाहरणं निबध्नाति
अणहिल्लपाटकं पुरमवनिपतिः कर्णदेवनपसूनुः ।
श्रीकलशनामधेयः करी च रत्नानि जगतीह ॥१३३॥ इह जगति त्रीणि रमते मनः एषु रत्नानि, "रमेस्त चेति" [हे उ २६४] नः वस्तूनि विद्यन्ते । तानि कानोत्याह-पाटयति पाटकः, क्लोबे पाटकम् । अणहिल्लेनोपलक्षितं पाटकं अणहिल्लपाटकं एकं तत्पुरं पत्तनम् ।१। द्वितीयोऽवन्याः पृथिव्याः पतिः अवनिपतिः श्रीकर्णदेवसूनु श्रीजयसिंहदेवः।२। च पुनः, तृतीयः प्रशस्तं नाम एव नामधेयं, नामरूपभागेभ्य स्वार्थे । [हे.व्या.७ २.१५८]0 धेय इति धेयः. तदनु श्रीकलश इति नामधेयं यस्य सः श्रीकलशनामधेयः, करी गजः ।३। इहोत्कष्टानामुपन्यासोऽवसेयः ॥१३३॥ अपकृष्टवस्तूनि प्रथ्नाति
ग्रामे वासो नायको निर्विवेकः कौटिल्यानामेकपात्रं कलरम् ।
नित्यं रोगः पारवश्यं च पुंसामेतत्सर्वे जीवितामेव मृत्युः ॥१३४॥ ग्रास्यते कुण्ठैः इति ग्रामः, "प्रसिहागभ्यां जिहोवेति मः," [हे. उ. ३३९] गुणान् प्रसतीति वा तस्मिन् ग्रामे वसनं वासः भवति । नयतीति नायकः, विवेचनं विवेकः, निर्गतो विवेको यस्मादसौ निर्विवेको नाथः । इह च शब्दः स्वगतानेकभेदसूचनार्थकः । कुटन्ति कुटिलानि । इले कुटादित्वात् गुणाभावे वक्राणि, तेषां समूहो भावो वा कौटिल्यम, बहुवचने कौटिल्यानि । तेषां कौटिल्यानां अर्थात् कचनभावानामेकपात्रं अद्वितीयभाजनम् । कलत्रं भार्या, नियतं भवं नित्यम् । 'नेवे' इति [हे. व्या. ६.३.१७] त्यच् सना । रोगो व्याधिः, च पुनः । परवशस्य भावः पारवश्यं पराधीनत्वम्, 'को नरकः परवशता' इति वचनात् । पान्ति त्रिवर्गान् पुमांसः, 'पातेः' हे. व्या. ४.२.१७] दुम्सुरिति दुम्सुः । तेषां पुंसां पुरुषाणां, एतत्सरति सर्व, 'लटिखटीति वः'। [हे. उ. ५०५] सर्वतीति वा निखिलं, प्रागुक्तमेवेत्यवधारणे । जीवन्तोति जीवन्तः, तेषामपि मृत्युपायं दशप्राणधारणकानामपि इत्यवसातव्यम् । यदुक्तं माघसत्कमुदमित्यादिद्वासप्ततितमवृत्तौ । अत्र सफलप्राप्त्याद्यनेककर्तृक्रिया यो यौ]गपद्याद्भिन्नाधिकरणक्रियासमुच्चयासमुच्चयरूपः समुच्चयालङ्कारभेदः । "गुणक्रियायोगपy समुच्चय" [टीका. शिशु. ६.७२] इति सामान्यलक्षणम् ॥१३४॥ साम्प्रतमप्रस्तुतप्रशंसां लक्षयति
प्रशंसा क्रियते यत्राप्रस्तुतस्यापि वस्तु नः ।
अप्रस्तुतप्रशंसां तामाहुः कृतधियो यथा ॥१३५॥ यत्र यस्यामलकियायां प्रस्तुतं प्रकान्तं न तथा तम्याप्रस्तुतस्यानुचितस्याप्रशंसनीयस्य वस्तुन प्रशंसा *लाया क्रियते विधोयते, तामप्रस्तुतप्रशंसामलकार क्रयां. कृता पुण्या धोयेषां ते कृतधिय. कुशाग्री यमतयः, आहुः ब्रुवन्ति । यथा' शब्दोऽनन्तरवक्ष्यमाण दृष्टान्तार्थकः ॥१३५।। 55. 'मामरूपभागात् धेयः' हे. व्या. ७.२.१५८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org