________________
ज्ञानप्रमोदिकावृत्तिः
भिन्नपदैः श्लेषमुदाहरति
तेन
कुर्वन् कुवलयोल्लासं रम्याम्भोजश्रियं हरन् ।
रेजे राजापि तच्चित्रं निशान्ते कान्तिमतया ॥ १३१ ॥
यो जयसिंह राजा, कमनं कान्तिः द्यतिः विद्यते यस्मिन्नसौ कान्तिमान् तस्य भावः तत्ता, तया कान्तिमत्तया प्रग्रहवत्तयाऽवश्यं तया । निशायामम्यते गम्यते इति निशान्तं, 'अम्गता' विति धातोः क्ते तत्सिद्धौ निशाम्यन्त्यस्मिन्निति वा । निशाया अन्तोऽत्रेति केचित् । तस्मिन् निशान्तेऽन्तःपुरेऽपि रेजे विभ्राजते स्म, तच्चित्रं महदाश्चर्यम् । किं कुर्वन् ? कुवलयोल्लासं कुर्वन् - कुः पृथ्वी तम्याः वलयं, तथा । तस्य कुवलयस्य भूमण्डलस्य, उल्लासमाल्हादं कुर्वन् विदधन् । तथा रम्यां वरेण्यां भोजस्य श्रीः भोजश्रीः, ताम् । पदेकदेशे पदसमुदायोपचारात् भोजराजलक्ष्मीं हरन् । अपरोऽपि यो राजा कुमुदबान्धवः भवति, सः निशान्ते प्रत्यूषे, कान्तिमत्तया न विभ्राजते । सोऽपि कौ वति प्राणिति कुवलयं, कुत्सितो बहिर्वल्यः पत्रवेष्टनमस्य वा तस्य कुवलयस्य वैश्वस्य उल्लासं विकासं कुर्वन् । अम्भसि जातान्यम्भोजानि, रम्याणि रमणीयानि च तान्यन्भोजानि च तथा, तेषां श्रीः रम्याम्भोजश्रीः, तां श्रेष्ठसूर्यविकासिनलिनशोभां हरन् । इह कुः पृथ्वीति भिन्नपदं रम्येति भिन्नपदं अम्भोजश्रीरिति भिन्नपदम् । अतो भिन्नपदश्लेषः । तदुक्तमर्थश्लेषलक्षणं
" एकार्थवाचकानामेव शब्दानां यत्रानेकार्थः सोऽर्थश्लेषः" इति ।
यत्रैकमनेकार्थैर्वाक्यं रचितं पदेकस्मिन् ।
अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ।। [ रु. का. १०.१]
इति रुद्रटेन यल्लक्षणं विहितं [रु. का. १०.१] तच्छब्दश्लेषत्वमेवापद्यते । अनेकार्थानां हि शब्दानामन्वयव्यतिरेकाभ्यां तस्य प्रवृत्तिनिवृत्ती ।
यथा -
तवैष विद्रच्छायो मरुमार्ग इवाधरः । करोति कस्य नो बाले पिपासाकुलितं मनः || १ ||
तव तन्वि कुचावेतौ भूभुजाविव राजतः ।
अन्योन्यमण्डलाक्रान्तौ सन्धिहीनौ करार्थिनौ ॥ इति ॥ १३१ ॥
सम्प्रति समुच्चयं लक्षयति
७९
एकत्र यत्र वस्तूनामनेकेषां निबन्धनम् ।
अत्युत्कृष्टापकृष्टानां तं वदन्ति समुच्चयम् ॥ १३२ ॥
कवयः,
यस्मिन्नकङ्कारे एकस्मिन् वर्णनीये वस्तूनि अनेकेषां वस्तूनां निबन्धनमुपन्यासो भवेत् समुच्चयनं समुच्चयः अनेकस्यैकत्राध्यावापः तं समुच्चयाभिधानमलङ्कारं ब्रुवन्ति । किविशिष्टानां वस्तूनाम् ? अतिशयेनोत्कृष्यन्ते स्म अत्युत्कृष्टानि, अपकृष्यन्ते स्म अपकृष्टानि अत्युत्कृष्टशांन चापकृष्टानि च तथा तेषां अत्युत्कृष्टापकृष्टानाम् । अत्युत्कृष्टानां अत्यर्थसत्तमानां, अपकृष्टानामधमानां इति विवेकः ॥१३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org