________________
७८
ज्ञानप्रमोदगणिनिबद्धा उदाहरति
संसारे मानुष्य' सारं मानुष्यके च कौलीन्यम् ।
कौलीन्ये धर्मित्वं धर्मित्वेऽपि चापि सदयत्वम् ॥१२८॥ संसरन्ति शुभाशुभैः कर्मभिर्जन्तवोऽस्मिन्निति संसारः संसरणं वा, तस्मिन् । संसारे गतिचतुष्टय भ्रमणात्मके भवे, मानुषस्य भावो मानुष्यं, सारं वरेण्यम् । मानुष्यकेऽपीति । मनुष्याणां समूहो मानुष्यकं, गोत्रे क्षेत्यक';+ मानवसमवायवर्तित्वं, तस्मिन् मानुष्यके । परनानभिहितक्रियावा. चकत्वेन पुण्यवशात् प्राप्तेऽपि, कुलीनस्य भावः कोलीन्यम् दशाङ्गयुगुत्तमकुलजातत्वं, सारमग्रिमं, तस्मिन् कोलीन्ये सुकृतसम्पत्तिवलेन लब्धेऽपि धर्मित्वमिति । तार्क्ष्यः पक्षिषु, मेरुरद्रिषु,वियद्व्यूढेषु, चक्री नरेष्विन्द्रः स्वर्गिपु, शीतदीधितिरुडुवरावणो हस्तिषु । शोतासिन्धुषु हेमधातुषु रविर्भास्वत्सु धाराधरा जीवातुष्वयमहतानिगदितो धर्मेषु धर्मा गुरुः ।।१।।
इत्येतादृशो धर्मः श्रुतचारित्रात्मकोऽस्यास्तीति धर्मी, तस्य भावो धमित्वं, सारं प्रधानम् । च पुनः अपिरवधारणे भिन्नक्रमे च, तस्मिन् । अवाप्तेऽपि सहृदयया सकलप्राणिजतनया वर्तमानः सदयः, तस्य भावः सदयत्वम् , सारं निखिलश्रेष्ठ वर्तते ॥१२८i अथ श्लेष लक्षयति
पदैस्तैरेव भिन्नैर्वा वाक्यं वक्त्येक मेव हि ।
अनेकमर्थ यत्रासौ श्लेष इत्युच्यते, यथा ॥१२९॥ यत्र यस्मिन्नलकारे, एकमेवेत्यवधारणे, वाक्यं पदसमुदायात्मकं; तैरेव पदैर्वर्णसमूहरूपैर्वेति, पक्षान्तरे यद्वा भिन्नैर्विलक्षणैः, पदैरनेक विविध, अर्थमभिधेयं, वक्ति वदति, बुधैरसौ श्लेषाभिधाना. लङ्कार इत्युच्यते । 'यथा' इत्ययं शब्दोऽग्रेऽभिधीयनानतत्पदभिन्नदृष्टान्तद्वयार्थकः ॥१२९॥
आनन्दमुल्लासयतः समन्तात्करैरसन्तापकरः प्रजानाम् ।
यस्योदये क्षोभमनाप्य राज्ञो जग्राह वेला किल सिन्धुनाथः॥१३०॥ राजतेऽमात्यादिभिरिति राजा, 'उक्षितक्षीत्यन्', हे उ.९००] रूजयति प्रजानिात वा. तस्य राज्ञः । ततोऽन्वये यस्य राज्ञो जयसिहदेवाह्वयस्य वसुधाधिपस्योदये क्षाभं साध्वसं लब्ध्वा । सिन्धूनां जनपदानां नाथः सिन्धुनाथो भूपातः, किलेत्याप्तवाक्ये, वेलां जग्राह समयमतिवाहयांबभूव । कीदृशम्य राज्ञः ? आनन्दनमानन्दः, तंः प्रजायन्ते प्रजा., तासां प्रजानां समन्तादानन्दमुल्लासयतः । कैः? करैर्दण्डे । किलझणे.? सन्तापमसातं कुर्वन्तीति सन्तापकराः, न तथा अपन्ताप करा., तेः, सखकारिभिरित्यर्थः । अथ चापराऽपि यः सिन्धूनां नदीना, नाथो भर्ता । नद्यो हि सागरमहिष्य इति वचनात सिन्धुनाथः समुद्रो राज्ञो निशारत्नस्य । “राजा निशा रत्नकरी च चन्द्र" इत्यूचुरभिधानचिन्तामणी हेमसूरपादाः (२.१९) । तस्य उदये, क्षुभ्यतेऽनेन क्षाभः, तं, चान्द्रकया। तदुल्लासादर्भित्वमासाद्य । वेलति चलाते वेला जलवृद्वरूपा, तां वेला तोरक्षोणिकां वा, गृहात्यापद्यते । किंलक्षगस्य निशारत्नस्य ? प्रजानां जनाना, करैः अंशुभिः, आनन्दं हर्षे, उल्लासयत । किभूतैः करः? असम्यक्तापकरः तुहिनरश्मिाभरित्यर्थः । अतस्ते रेव पदैः श्लेष । इह सिन्धुनाथे सिन्धुशब्दस्य साधम्योदेकनालावलम्बफलद्वयवदेकशब्देनाथेद्वयप्रतोतेः उभयथाऽपि सिन स्वाच्च केवलप्रकृतविषयोऽर्थतः -लेषावशेषस्यापि केवलप्रभेदे लिबानेयमान्न तुल्य योगिता ॥१३०॥ 54. गोत्रक्षत्रियेभ्यः अका प्रायः । [हे. पा. ६.३.२० ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org