SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृतिः साम्प्रतमवसरं लक्षयति यत्रार्थान्तरमुत्कृष्टं सम्भवत्युपलक्षणम् । प्रस्तुतार्थस्य स प्रोक्तो बुधैरवसरो, यथा ॥१२५॥ यत्र यस्मिन्नलङ्कारे प्रस्तुतार्थस्य प्रस्तावप्राप्तार्थस्य वर्णनीयोत्कृष्टं सकलप्रतीतमर्थान्तरमुपलक्षणं संभवति, बुधैः सुधोभिः सोऽवसरालङ्कारः प्रोक्तः प्रणोतः । यथेत्यनेन पुरो वृत्ते उदाहरिष्यते ।।१२५॥ स एष निश्चयानन्दः स्वच्छन्दतमविक्रमः । येन नक्तंचरः सोऽपि युद्धे बर्बरको जितः ॥१२६॥ स एष राजा विद्यते अर्थाज्जयसिंहदेव एव । किंविशिष्टः ? निश्चयेन सर्वकालीनेन, आनन्दः प्रमदो, यस्य सः निश्चयानन्दः । न कर्हिचन परपरिभवादिव्यासेन विख्यातः । पुन कीदृशः ? अतिशयेन स्वच्छन्दः स्वायत्तः स्वच्छन्दतमः, तथाविधो विक्रमो विक्रान्तिर्यस्य सः, स्वच्छन्दतमविक्रमः स्वाधीनतरबलः । उपलक्षयति-येन सम्राजा सोऽपि प्रख्यातनरो बर्बरनामधेयो नक्तंचरो निशाचरलक्षणो भूपतिराह वेजितोऽतिभूतः । अत्रार्थादेव जयसिंहदेवः प्रसिद्भस्य बराबभूपस्य जयविधायकत्वेनोपलक्षणेनावसीयते । यमित्यवसरालङ्कारः । तथा चोक्तममरूशतकान्तर्वति 'कोपो यत्र' इत्यायेकोनचत्वारिंशत्तमकाव्यटीकायां- " तथा निःशकेन किमप्याचरितं यथाऽहमप्यनन्यशरणा ते दुर्जनी जाता" । अवसरोऽलङ्कारोऽर्थान्तरमुत्कृष्टं सरसं य द वोपलशगं क्रियते___अर्थस्य तदभिधानं प्रसङ्गतो यत्र सोऽवसरः । [अ. श. २८-टीका] यथा तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी । निवसन् बाहुसहायः चकार रक्ष क्षयं रामः ॥२॥१२६॥ [अ. श. ३८-टीका] सार' लक्ष्यति यत्र निर्धारितात्सारात् सारं सारं ततस्ततः । निर्धार्यते यथाशक्ति तत्सारमिति कथ्यते ॥१२॥ यत्र यस्मिन्न लङ्कारे, निर्धारितात् निर्धारीकृतात, सामान्यवस्तुनः पृथकृतात्साराच्च श्रेष्ठाद्वस्तुनः मारमत्तमं निर्धार्यतेऽभिन्न विधीयते । ततस्तत इति तदनुभूयोभूयो, यथाशक्ति स्वसामर्थ्यानुसारेण सार वस्तु निर्धार्यते । ततस्तत इति वीप्सायां द्वित्वे सारनेरम्तयमुदितं, प्रवीणरिदं सारमिति सारा. लकार उच्यते । न च ततस्तत इत्यादो पौनरुक्त्यमाशङ्कनीयम् । उक्तं च अनुवादादरवोप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भवविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ इति ।।१२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy