________________
ज्ञानप्रमोदगणिनिवदा
यत्र यस्मिन्नलङ्कारे वाक्ये आपाते शब्दश्रवणमात्रे निरूपणकाले च, विरुद्धत्वमाभाति विरुद्ध. स्वेनाभासते । परं न तत्त्वतो न परमार्थतः, किन्तु विरुद्धशब्दकृतं विपरीतारवनिष्पादितं प्राज्ञैः, हि निश्चितं, स विरोबालङ्कारः स्मृतः । यथा' शब्दोऽनन्तरवक्ष्यमाणविरुद्धशब्दार्थकृतदृष्टान्तद्वितयार्थकः ॥१२२॥ तत्र शब्दविहितविरोध दर्शयति--
दुर्वारवाणविभवेन सुवर्मणापि लोकोत्तरान्वयभुवापि च धीबरेण ।
प्रत्यर्थिषु प्रतिरणं स्खलितेषु तेन संज्ञामवाप्य युयुधे पुनरेव विष्णुः ॥१२३॥ जरासन्धवसुधापतिना युद्धे कृष्णमजेयं मत्वा प्रयुक्तया जराविद्यया यदु कटके निहतसंज्ञे निर्मिते सति । वेवेष्टि विश्वं व्याप्नोति विष्णुः, “सूविषिभ्यां नुर्यण्वदिति नुः । संज्ञायतेऽनया संज्ञा संज्ञानं वा, संज्ञाम् । ततः क्षगान्तरे विष्णुर्विश्वम्भरः, संज्ञां चैतन्यं, अवाप्य उध्वा, पुनः मूयः, एवेत्यवधारणे । युयुधे सङ्गरं विदधौ । केषु सत्सु ? तेन नेमिस्वामिना; प्रतिरणं-प्रतीपमर्थयन्ते प्रत्यर्थिनः, तेषु प्रत्यर्थिषु परिपन्थिषु जरासन्धपाक्षिकेषु स्खलितेषु सत्सु; उच्छृखलभावं मोचितेषु करुणार्द्रहृदयत्वेन प्रोज्जासितेपु । दुर्वारादिविशेषगचतुष्केन श्रीनेमिनाथं विशिनष्टि । कि भूतेन नेमिना? बाणान् वारयति वारबाणः । 'राजादन्तादित्वात्, [हे. व्या. ३.१.१४९] पूर्वनिपातः । वारमाच्छादकं वा, नमस्येति वा, पूर्वपदस्थादिणि णत्वं-'वारबाणस्तु कञ्चुकः' (३.४३१] इत्यभि धानचिन्तामणिवचनात् । दुष्टो वारबाणस्य कञ्चुकस्य विभवो यस्य सः दुर्वारबाणविभवः, तेन । पुनः कीदृशेन ? वृणोत्यङ्ग वर्म, 'मनितिमन्'; सुष्ठु वर्म सन्नाहो यस्य सः सुवर्मा, तेन । अपिः विरोधाभाससूचकः सर्वत्र योज्यः । यो हि दुर्वारवाणविभवः सः कथं सुवर्मा शोभनकाचो भवेत् ? आपाते विरोधो, न तत्त्वतः; विरोधपरिहारस्तु दुःखेन वारयितुं शक्यः, दुर्वारो वाणविभवो सायकप्रपञ्चो यस्य सः, तथा तेन । पुनः किंलक्षणेन ? लोकोत्तरे सर्वोत्कृष्टेऽन्वये वंशे, भू. उत्पत्तिः यस्य असो, तथा तेन लोकोत्तरान्वयभुवा । यः किल उत्तमवंशोद्भवः सः कथं धीवरो मत्स्यबन्धक इति विरोधः । वस्तुगत्या तु धीवरेण धिषणासत्तमेने ते तत्परिहारः ॥१२३॥ अर्थनिर्मितविरोध दृष्टान्तयति
येनाक्रान्तं सिंहासनमरिभूभृच्छिरांसि विनतानि ।
क्षिप्ता युधि शरपङ्क्तिः कीर्तिर्याता दिगन्तेषु ॥१२४॥ येन भूपालेन सिंहासनमाकान्तम् । अरिभूभृतां विपक्षराज्ञां, शुणन्ति वियुक्तानोति शिरांसि शीर्षाणि, विनतानि प्रहोभावमापादितानि । यत्खल्वाक्रम्यते तन्नमति । इह चापरमाक्रान्तं इतरन्नमितं इत्यर्थकृतो विरोधाभासः । यथा येन राज्ञा, युधि सगरे, शुणाति शोर्यते वा एभिः शरा., पंच्यते पंक्तिस्तेषां पंक्तिः, शरपंक्तिः इषुश्रेणिः, क्षिप्ता दिगन्तेषु ककुप्यय, तेषु । कीर्तिः याता गता । यत् क्षिप्यते तारं याति । इह च न तथा क्षिप्तं अन्यदूरगतं; अन्यदर्थकृतविरोधोऽयम् । तदुक्तं--
यस्मिंश्च द्रव्याणां परस्परं सर्वथा विरुद्धानां एकत्रावस्थानं समकालं भवति स विरोधः । सर्वत्र विरावे विद्ववदाभासत इति विरोधभासालङ्कारः । तथा चावाचि काव्यप्रकाशे--
विरोधाभासा- " अविरोधेऽपि विरुद्वत्वेन यद्वचः” [ १०.११०] इति लक्षणम् ॥१२४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org