________________
७४
ज्ञानप्रमोदगणिनिबद्धा
'कसेरलादिरिच्चास्येत्ययः' [हे.उ ३६८] । पद्यते पद्मानि अौरीतिमः, बिसानि च किसलयानि च पद्मानि च तानि तथा । ततश्चाहमेवं मन्ये वितर्कयामि, बिसानि तन्तुलानि, किसलयानि पल्लवाः, पद्मानि नलिनानि, इमानि त्रीणि विरहविपदि विप्रयोगकृच्छ्रे, वैरात् विद्वेषात् , अगे बेरे, ताप सन्तापं, तन्वते विस्तारयन्ति । वैरहेतुगर्भितं विशेषगं विगदति । आत्ता लक्ष्मीर्यस्तानि आत्तलक्ष्मीणि गृहीतविभूषणानि । अपरोऽपि यो बलादात्तलक्ष्मीकः स्यात्स विद्वेषं धत्ते; व्यसने पतिते च पन्तापं निर्मिमीते । कैः ? भुज्यते आभ्यां भुजौ, तो लतिके इत्र भुजलतिके; मृद्यौ च ते भुजल तके च तथा. ताभ्यां मृदुभुजलतिकाभ्यां सोमालबाहुवल्लीभ्याम् । पद्मनालानि आत्तलक्ष्मीणि निर्मितानि । इत्थमहिनलिनप्रभया, शोणिमानं लोहितिमानं बिभ्रत्या किसलयानि गृहोताभाकानि विहितानि । तथा चारुणा रुचिरेग, आननेन वदनेन, पद्मानि आदत्ताभिख्यानि सृष्टानि ॥११७।। अथ विषमं लक्षयति -
वस्तुनो यत्र सम्बन्धमनौचित्येन केनचित् ।
असम्भाव्यं वदेद्वक्ता तमाहुर्विषम यथा ॥११८॥ वक्ता पुरुषः, यत्र यस्मिन्न लड़कारे, उभयोर्वस्तुनोः केनचिदनौचित्येन अयोग्यतया, सम्बन्धमसम्भाव्यं सम्भावयितुमनह , वदेत्कथयेत्, लब्धवर्णाः तं विषममलकारमाहुः ब्रुवन्ति । यथा इति अनेन अनन्तरवृत्ते चैतदुदाहियते ॥११८॥
क्वेदं तव वपुर्वत्से कदलीगर्भकोमलम् ।
क्वाय राजीमति क्लेशदायी व्रतपरिग्रहः ॥११९॥ विरागिणीं राजीमती प्रति उग्रसेनपार्थिवस्योक्तिरियम् । इह द्वौ 'क्व' शब्दौ महदन्तरं सूचयतः । वदति मातरं दृष्ट्वा वत्सःमावादीति सः स्त्रियामा[म]पि वत्सा, तस्य आमन्त्रणे हे वत्से राजीमति ! इदं तव वपुः क्व, अयं व्रतस्य वनकर्कशप्राणभृदहस्य दीक्षारूपस्य, परिग्रहोऽभ्युपगम्यो व्रतपरिग्रहः क्व ? किंविशिष्टं वपुः? कदल्याः गर्भः मध्यः, तद्वत्कोमलं कदलीगर्भकोमलम् मोचामध्यम दुलम् । कथभूतो व्रतपरिग्रहः ? क्लेश केशलोचाद्यात्मकं, ददातीत्येवंशीलः क्लेशदायी । इह तडागोन्मीलितकोमलमृणालन्यायेन तनोरतीव सोमालत्वेन चारित्र्यस्य चाधिकतर लेशदातृत्वेन सम्बन्धो न सम्भवेदित्याकूतम् । तथोक्तं शृङ्गारशतकसत्कपञ्चपञ्चाशत्तमस्य
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा ।
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।।85 इत्याद्यात्मकस्य वृत्तस्य वृत्तो लक्षणया तस्या आलेख्यके लोकान्तर गतो इत्यर्थः । त्वं तावदास्व दूरे । भृत्यावयवो निहन्त्यहिवर्गमित्यादिवद्विषमालङ्कारः । तथा गीतं वाद्यं नृत्यं चालेख्यं विशेषक पत्रच्छेद्यमित्याद्यपि विषमालङ्कारः । तदुक्तं
विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपधटनाय स्याद्विषमालङ्कृतिर्मता ।। [प्र.रु.-अ.प्र.] इति लक्षणम् ॥१॥ "यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत्कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ।२। 53. लोक एष अ.श, ५५ रूपेणापि प्राप्यते । नोपलभ्यते शृङ्गारशतकस्य प्रकाशितग्रन्थेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org