________________
ज्ञानप्रमोदिकावृत्तिः मुक्त्वा अपनीय । किंविशिष्टानि ? स्फुरन्तः भासमानाः, प्रदीपाः कज्जलध्वजाः येषु तानि स्फुरतप्रदीपानि । किंलक्षणासु गुहासु ? अन्तः मध्ये, गताः प्राप्ताः, विविधमालमनर्थः[?]। एभ्यो व्याला व्यउन हन्तुमुद्यमः एषामस्तीति वा । ततः कर्मधारये, ते च ते व्योला: दुष्टद्विजिह्वाश्च । तथा फण गती, फणन्तीति फणाः फण्यन्ते वा । फणा एव मणयः, फणास मणयो वा, फणामणय इवेति वा, तेषां फणामणयः । तथा तेषामन्तर्गतव्यालफणामणीनां प्रभाभिः दीप्तिभिः, उद्भाभिता प्रकाशिता भूः भूमिः; यासां तास्तथा । तासु उद्भासितभूषु प्रदीपस्थाने फणामणयः; गृहस्थाने गुहाः । कज्जलध्वजान्वितसदनसदृशस्य फणामणिद्योतितकन्दरारूपस्यार्थस्य परावर्तनविधानात्सदृशपरिवृत्तिः
॥११५॥ असदृशार्थ निदर्शयति
दत्त्वा प्रहारं रिपुपार्थिवानां जग्राह यः सयति जीवितव्यम् ।
शृङ्गारभङ्गी च तदङ्गनानामादाय दुःखानि ददौ सदैव ॥११५॥ यो काश्यपीपालः भूपालः, संयति रणे, प्रहरणं प्रहारो घातः, तं दत्त्वा वितीर्य; रिपुपार्थिवाना शत्रुनृपाणां जीवितव्यं जग्राह आददे । च पुनः. तदङ्गनानां सपत्नसुन्दरीणां, शृङ्गारमण्डनप्रकाराद्यलकाराः, तेषां भङ्गी सविच्छित्तिरचना परम्परा वा, तामादाय सदैव दुःखानि सातानि दत्तवान् । इह प्रहारसमानेन जीवितव्येन शृङ्गारभङ्गीसमानानि दुःखानिः अतोऽसहशार्थेन परिवर्तनम् । तथोक्त पोलस्त्यमहादेवयोः मुखवरप्रदानयोः विनिमयात्परिवृत्तिः, समन्यनाधिकानां च पदानां विनिमयो भवेत् साकं समाधिकन्यूनः, परिवृत्तिरसौ मतेति लक्षणम् । अन्यच्च
युगपदानादानेऽन्योन्यं वस्तुनोः क्रियेते यत् ।
क्वचिदुपचर्येते त्वाप्रसिद्धितः सेति परिवृत्तिः ॥१।। [रु. का. ७ ७७] यथा
दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया हि कृताः ।
किन्त्वपहरसि मनो यद् ददासि रणरणकमेकं तत् ॥ [रु. का. ७.७८] ॥११५॥ . यथासख्यं लक्षयति
यत्रोक्तानां पदार्थानामर्थाः सम्बन्धिनः पुनः ।
क्रमेण तेन बध्यन्ते तद्यथासङ्ख्यमुच्यते ॥११६॥ यत्र यस्मिन्नलम्कारे एकस्मिन् स्थले उक्तानां निबद्धानां, पदार्थानां वस्तूनां, सम्बन्धोऽस्त्येषामिति सम्बन्धिनः । मत्वर्थीयो णिनिः, न तु कृतो णिनिः । अत्र कृत्तद्धितयोः तद्धितवृत्तिः बलीयसीति भाष्येऽतः सम्बन्धिनोऽर्थाः पुनः भूयः, तेनैव क्रमेण परिपाट्या; तथोदितवानमर: ‘क्रमः परि. पाटीति' । बध्यन्ते रच्यन्ते विद्वभिः तत्सङ्ख्यानमतिक्रम्य करोतीति यथासङ्ख्यं भण्यते ।।११६॥
एतदुदाहियतेमृदुभुजलतिकाभ्यां शोणिमानं दधत्या चरणकमलभासा चारुणा चाननेन । निसकिसलयपदमान्यातलक्ष्मीणि मन्ये विरहविपदि वैरात्तन्वते तापमझें ॥११७॥ वियन्ति विसानि 'पटवदिवीभ्यामिति डिति सः' [हे. उ. ५७९]: विस्यन्ते प्रर्यन्ते वा । कसन्ति किसलयानि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org