________________
ज्ञानप्रमोदिकावृत्तिः
७१
सः विषसोदरः । एकतोऽर्णवाज्जातत्वाद्विपं हि व्यापादयति; तत्सहोदरः कुमुदबान्धवः, सोऽपि मारयतीति तदुचितम् । द्वितीयः आ अश्नुते आशा । कृतोऽन्तो येन सः कृतान्तः यमः. तस्य आशायामदिक्. तदधिष्ठित वात् तद्व्यपदेशः इति कृतान्तांशा । तस्याः दक्षिणस्याः दिशः सकाशादागतो मलयाचलवायुः विरहद महः हैमन्तमारुतवत् । अपरोऽपि कृतान्तवदाशया व्यापादनाध्यवम्गयेन समायातः स्यात्स हिनस्ति तृतीयः शिखीद्रुमः । किंलक्षणः ? जातानि प्रादुर्भतानि. पलाशानि पर्णानि यत्र स जातपलाशः । इतरोऽपि जातपलाशो विध्वंसयति जाप्तोत्पन्नापलस्य मांसस्थाशावान् छायस्त स तथा । सोऽपि मारयतीति हेतुरवसेगः ।।१०८।।
पर्यायोक्ति लक्षयति
अतत्परतया यत्र कल्पमानेन वस्तुना ।
विवक्षितं प्रतीयेत पर्यायोक्तिरियं, यथा ॥१०९॥ यत्र यस्यामलड् कृतौ, अतत्परतया भेदेन कल्पमानेन वस्तु प्रतीयेत, प्रतिपूर्वा दिण कर्मणि लिङावसीयते, इयं पर्ययणं पर्यायः, परीयन्ते प्रतीयन्ते क्रमेण अर्थाऽनेनेति वा; घनि प्रत्यये, तस्य वचनं उक्तिः पर्यायोक्तिः स्यात् । 'यथा'- शब्दोऽग्रे वक्ष्यमाणोदाहरणार्थे ॥१०९।।
स्वत्सैन्यवाहनिवहस्य महाहवेषु द्वेषः प्रभो रिपुपुरन्ध्रिजनस्य चासीत् ।
एकः खुरैर्बहलरेणुततिं चकार तां संजहार पुनरश्रुजलैर्यदन्यः ॥११०॥ हे प्रभो नायक, आहूयन्ते शत्रवो येष्वित्याहवाः, महान्तश्च ते आहवाश्च महावास्तेषु वृहद्रणेषु । सेनैव सैन्यं, वाहयन्ते वाहाः, निवहतीति निवहः । तव सैन्यं त्वत्सैन्यं, तस्य वाहाः हयाः तथा, तेषां निवहः समुदयः, तस्य त्वत्सैन्यवाहनिवहस्य भवच्चमृतुरङ्गमनिकरस्य । पुरं वपुः धत्ते पुरन्ध्रिः, पृषोदरादित्वात्तस्याः जनः । एतस्यामपि पुरन्ध्रां पुरन्ध्रिलोक इति जात्यपेक्षया लोकोक्तिः । एकवचनं चाथ पुरं गृहं धारयतोति पुरन्धिः, सैव विधेयत्वेन जनः । यद्वा प्रियस्यानल्पप्रेयसीस्पृहणीयतया पुरन्धिगण एव भवतु रिपूगों पुरन्ध्रिजनः, तथा तस्य । रिपुपुरन्धि जनस्य अरातिप्रमदानियस्य चान्योन्यं देषोऽभवत् । तयोरेकः त्वत्पैन्यवाहनिवहः खुरर्बहलरेणुतति संजहार संहरति स्म । के ? अश्रु जलैः वाष्पनीरः । द्वेषस्यै तल्लक्ष्म- एको निर्मिमोते अन्यः संहरति । इहारय प्रोज्जासिता इति विवशतम् तथेते नार्थनावगम्यते न साक्षाद् भाष्यत इति कल्प्यमानेन द्वेपेण नृपस्य शौर्य प्रतीयते । शौर्यस्य साक्षादणितत्वादतत्परता । तदुक्तं--
कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् ।
प्रस्तुतत्वेन सम्बद्धं तत्पर्यायोक्तमुच्यते ॥ [प्र. रु -अ. प्र] तथा चाभागि माघसप्तमसर्गस्थ 'प्रथम' इत्याये कोनसप्ततिवृत्तवृत्तौ । अत्रैकस्य श्रमजलस्य क्रमेणानेकाश्रय सम्बन्धनिबन्धनात् पर्यायालङ्कारभेदः
क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथवाऽनेकपर्यायालतिर्मता ॥इति १ ॥११०॥ [शि. ७/६९. टीका ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org