________________
काव्यकल्पलतावृत्तिः
स्वयंवरे शचीरक्षा मञ्चमण्डपसज्जता। राजपुत्री नृपकारान्वयचेष्टाप्रकाशनम् ॥८८।। सूरापाने विकलता स्खलनं वचने गतौ । लज्जा मानच्युतिः प्रेमाधिक्यं रक्तक्षणभ्रमाः ।।८९।। पुष्पावचये पुष्पावचयः पुष्पार्पणार्थन दयिते । मालाद्यं गोत्रस्खलनेविक्रोक्तिसम्भ्रमाश्लेषाः ।।९०।। जलकेलो सरःक्षोभश्चक्रहंसापसर्पणम् । पद्मग्लानिपयोबिन्दुग्राग्रा भूषणच्युतिः ।।११।।
सुरते सात्त्विका भावाः सीत्कारः कुड मलाक्षिता । म.टी. सरभाविति--वमन्ततो जातिविनेतरपुष्पाणि । ग्रीष्मे इति-मल्ली, मल्लिका । वर्षास्विति हलिप्रीतिः कृषिकप्रीतिः । शरदीति--सप्तच्छदो वृक्षविशेष:-शिखीति मयुराणां । पक्षमदयो: पालो गलनमित्यर्थः ।
हेमन्तति-स्तम्बो धान्यगच्छ:, मरुबको वक्षः मरुओ इति प्रसिद्धः । शिशिरे इति-शिरीषो वक्षविशेषः । सुर्ये इति-प्रीतिशब्दो रविमण्यादी (दि)ष प्रत्येक सम्बध्यते । अत्तिशब्दस्तारादिकूलटान्तेष प्रत्येक योज्यते । चन्द्रे इतिअवाधिकारान्मानिनीमानं मानशब्देनोच्यते । अतिशब्दः कुलटादिषु प्रत्येकं सम्बध्यते । प्रीतिशब्दो जलध्यादिषु प्रत्येक योज्यते । विवाहे इतिअष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।
ब्राह्मस्तु प्रथमस्तेषां प्राजापत्यस्तथैव च ।। इत्यादिपरिमलाद ज्ञेयं--
उलूलो मंगलध्वनिः । त्रयीरवा वेदत्रयीरवाः । वेदी चतुरिका । सङ्गीतं प्रेक्षणार्थे । तारेक्षा ताराया अवलोकनं लोचनमीलनमिति । स्वयंवरे इति-शचीरक्षा इन्द्राणी, रक्षां कुरुते । नपाकारवंशचेष्टावलोकनम् । पुष्पावचये इति-भर्तरि पुष्पाणामर्पणं याचनं चेति । सुरते इति ।
स्वेद १, वेपथ २, रोमांच ३, स्वरभेद ४, विवर्णता ५ ।
स्तम्मा ६, ऽथ, प्रलपा, ८ चैतेऽष्टौ भावाः सात्त्विका मताः ।। चिद्रूपैरिति पण्डितः ।
काञ्चीकङ कण मजीररवोऽधरनखक्षते ।।९२॥ वर्येषु वर्ण्यभावनां दिङ मात्र मिति कीतितम् । चिद्रूपंश्चिन्त्यमानानां भवत्येषामनन्तता ।।९३।। असतोऽपि निबन्धेनानिबन्धेन सतोऽपि च । नियमेन च जात्यादेः कवीनां समयस्त्रिधा ।।१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org