________________
काव्यकल्पलतावृत्तिः
सरस्यम्भोलहर्यम्भोगजाद्यम्बुजषट्पदाः । हंसचक्रादयस्तीरोधानस्त्रीपान्थकेलयः ॥६५।। अब्धौ द्वीपादि रत्नोमिपोतयादोजगत्प्लवाः । विष्णु: कुल्यागमश्चन्द्राद् वृद्धिरौर्वोऽब्दपूरणम् ॥६६।। सरित्यम्बधियायित्वं वीच्यो जलगजादयः । पद्मानि षट्पदा हंसचाद्याः कूलशाखिनः ।।६७।। उद्याने सारिणः सर्वफलपुष्पलताः द्रुमाः । पिकालिकेकिहंसाद्याः क्रीडावाप्यध्वगस्थितिः ।।६८।। शैले मेघौषधीधातुवंशकिन्नरनिराः । शृङ गपादगुहारत्नवनजीवाऽध्युपत्यकाः ॥६९।। अरण्येऽहिवराहेभयूथसिंहादयो द्रुमाः । काकधूककपोताद्या भिल्लतल्लदवाद्रयः ॥७०।।
आश्रमेऽतिथिपूजणविश्वासो हिस्रशान्तता । म.टी.
अब्धौ इति--और्वा बडवानलः । मेघपुरणं उद्याने इति । सारणिर्जलमार्गः नीक इति प्रसिद्धाऽपि । काली कोकिलभृगौ । शैल इति--शृङ्गाणि शिखराणि पर्यन्तपादाः पर्वताः पर्वतस्योद्ध्वभूमिरधित्यका, अधोभूमिरुपत्यका । अरण्ये इति अखातं सरः । का. क. यज्ञधूमो । मुनिसताद्रुसेको वल्कलद्रुमाः ॥७१।।
मन्त्रे पंचाङ्गताशक्तः षाड्गुण्योपायसिद्धयः । उदयाश्चिन्तनीयाश्च स्थैर्योन्नत्यादिसूक्तयः ।।७२।। दूते स्वस्वामितेजःश्री विक्रमौन्नत्यकृद्वचः । शत्रुक्षोभकरी चेष्टा धाष्ट यं दाक्ष्यमभीरुता ।।७३।। युद्धे तु धर्मबलचाररजांसि तूर्यनिश्वासनादशरमण्डपरक्तनद्यः । छिन्नातपत्ररथचामरकेतुकुम्भिमुक्ताः सुरी:वृतभरामरपुष्पवर्षाः ।।७४।। प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः । करभोक्षध्वजच्छत्र वणिक्शकटवेसरा: ॥७५।। मृगयायां श्वसञ्चारो वागुरा नीलवेषता । भटढक्का मृगत्रासः सिंहयुक्तं, त्वरागतिः ।।७६।। अश्वे खुरखुरोत्खातरजःसल्लक्षणस्थितिः । गतिर्वेगवती वक्रभास्यं धाराप्रपञ्चनम् ।।७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org