________________
काव्यकल्पलतावृत्तिः -परिशिष्ट
१२५
व्यवस्था देशकालयोरिति ।
चित्रार्थदर्शितां तत्त्वे देशकालज्ञता कव: । अतो देशस्य कालस्य व्यवस्था कथ्यते क्रमात् ।।१।। जगद्युगपद्देशोऽपि हि देशः प्रकीर्तितः । केप्याहुः देवा पृथिव्याप्तमेकं जगत् किल ।
यथा
--
हलग्मगुबलस्यैकोनड्वान् हरस्य गलां गलम् क्रमपरिमिता भमिविष्णोर्नगीनं च लाङ्गलम् । प्रभवति कृषिनद्याप्येषा द्वितीयगवं विना जगति सकलेनेदृग दृष्टं दरिद्रकुटुम्बकम् ।। दिवः पथिव्यो जगती द्वे च केचन केऽपि च । स्वर्गमर्त्यपातालानां भेदास्त्रीणि जगन्ति तु ।।
क्रमाद्यथा
रुणद्धि रोदसी चास्य यावत् कीतिरनश्वरी । तावत् किलायमध्यास्ते' सुकृतवैर्बुधं पदम् ।।
त्वामेव देवा पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुभमिरेको लोकत्रयात्मकः ।। एतानी बभूर्भुवः स्वरिति केऽप्यपरे पुनः । यथा---
नमस्त्रिभुवनाभोगवत्तिभोगभरादिव ।
नागनार्थाकपर्यडकशायिने शाङ्गधन्विने ।। महर्जनतपः सत्यमित्येतैः सप्त तानि तु । यथा
संस्तंभिनी पृथु नितम्बतटे धरित्र्या: संवाहिनी जलमुचां चलकेतुहस्तः । हर्षस्य सप्तभुवनप्रथितोरुकीत्तिः प्रासाद पंक्तिरियमुच्छिखरा विभाति ।। अन्ये तु सप्तभिर्वायुस्कन्धस्तानि चतुर्दश यथानिरवधिराश्रयं च यस्य स्थितमनुवतितकौतुकप्रपञ्च । प्रथम इव भवान् सत्कर्ममूर्तियति चतुर्दशलोकवल्लिकं दः ।। पातालो सप्तभिः सार्द्ध तान्येके त्वेकविंशति । यथा--- हरहास हरावास हरहारनिभप्रभाः । कीर्तयस्तव लिम्पन्तु भवनान्येकविंशतिम् ।। सहजविवक्षेकयतिविशेषविवक्षा त्वनेकयति । इत्युपपन्न निखिलं कविषु मगाशेषभेदेषु ।।छ।। तेषु भूलोको भूस्तस्यां महीदीपाश्च सप्त तु । सर्वमध्ये जम्बूद्वीपस्त्रप्लक्षोऽथ शाल्मलः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org