________________
१२२
काव्यकल्पलतावृत्तिः परिशिष्ट
निर्मोका नादसुरभिप्रसूने प्रियता विषं । शिवे भूषाकरः क्षोणीधारकः पूर्वजोऽस्य च ॥४॥ द्विपदा देवता माः पक्षिणश्व प्रकीर्तितम् । स्वरूपं देवमानां पक्षिणो गरुडादयः ।। ५ ।। ताक्ष्य विष्णोर्ध्वजे स्थायी वाहनं च हरिण्यरुकः । इन्द्रजेता सुधाहर्ता सर्पा सीमातदास्यहृत् ।। ६ ।। गरुडस्य राजधानी कूटशाल्मलिपर्वतः । उल्वतीदयतिा पुत्रः सुमुखः पक्षिराजता ।। ७ ।। सूपर्णाकाश्यपौ मातापितरौ वरुणोऽग्रजः। हंसशुक्लतनुस्ताम्र मुखाहिर्मधुरारवः । लीलागतिः सरः कुल्या: पद्मसेवी मृणालभुक् ।। ८ ।। . वर्षास मानसस्थायी क्षीरनीरविवेककृत् । पूर्वजोऽस्य ब्रह्म ब्राह्मी तोतलालां च वाहनम् ।। ९॥ केकी केकारवो वर्षा तप्तवान सशिरः शिखः । स्त्रीकेशपाशसंकाशकलापा हिडिभुगस्य तु ।।१०।। पिच्छ छत्रतया श्रीमन्मौलिस्थायि विषादिहृत् । धर्मभिव्यजनीभूतं पूर्वजस्कन्दवाहनम् ।।११।। कोकिला स्त्रीवचश्चारुरवामदपरा मधी। सहकारवनावास श्यामलारुणलोचना ।। चक्रद्वयं दिवा योगिनक्तं विरहदुःखभाक् । मिथः स्निग्धं सुवर्णाभं नारीकुचयुगोपमम् ।।१३॥ चकोरश्चन्द्रिकास्वादी रक्ताक्षः स्त्रीदृशासमः । स्थावरं विषमे तेन दृष्ट मन्दयायते क्षणात् ।।१४।। शुको मनुष्यवाग्नीलो रक्तास्यः श्यामकण्ठकः । सारिकामर्त्यवाक् श्यामा क्रीडाय पञ्जरे द्वयम् ॥१५॥ पारापतः सदा कामी रक्ताक्ष: कलकजितः। दूरतोऽपि प्रियास्थानवेदी दीर्घतरत्वरः ।।१६।। खञ्जनः कामिनी नेत्राकारश्चारुगतारवः । दृश्यं सरद्यदृश्यश्च ग्रीष्मे कल्याणदर्शिनः ।।१७।। चातकोन्दपयो बिन्दुजीवनो गलरन्ध्रवान् । ताम्रचूडो निशाप्रान्तध्वानी स्वज्ञातियुद्धकृत् ॥१८॥ खद्योतो मेधतिमिरोद्योति वह्निकणाकृतिः। बलाकाश्याममेघान्तवारिणी शक्लदीधितिः।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org