________________
१२०
काव्यकल्पलतावृत्तिः परिशिष्ट
विन्यस्यन्ती चरणकमले लीलया स्वैरपातः।
निःसङ्गीत प्रथमवयसा नतिता पङकजाक्षी।। विहृतं व्याजादितो यज्जल्पकालेऽप्यजल्पनं। व्याजोहीमोग्ध्यान्यचित्तत्वादिप्रस्थापनाशयः, आदिग्रहणान्मौग्ध्यलज्जादिग्रहः। ततो भाषणस्योचिते समयेऽपि लज्जादिप्रकाशननिमित्तमभाषणं विहृतं । यथा--
पत्यु: शिरश्चन्द्रकलामनेन स्मृशेऽति सख्या परिहासपूर्वम् ।
सा रंजयित्वा चरणौ कृताशीर्माल्येन तां निर्वचन जघान ।। (कुमार. ७.१९) केचिद् बाल्य-यौवन-साधारणविहारविशेष क्रीडितं क्रीडितमेव च प्रियतमविषयं केलि वालंकारावाहुः। यथा--
मन्दाकिनी सैकतवेदिकाभिः सा कंदुकैः कृत्रिमपुत्रकैश्च ।। रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये। (कुमार. १.२९) व्यपोहित लोचनतो मुखानिलरपारयन्तं किल कौसुमं रजः । पयोधरेणोरसि काचिदुन्मना
प्रियं जघानोन्नतपीवरस्तनी।। अथ सप्तयन्न (त्न?) जा: शोभाकान्तिदीप्तिमार्य धैयौदार्यप्रागल्भ्यनामानोऽलङकाराः। क्रमेण लक्षणम् ॥छ।।
शोभा कान्तिश्च दीप्तिश्च प्रियभोगोपबहणम् ।
रुपयोवनलावण्यः श्रीर्मन्दा मध्यमा द्रुता॥ तेषामेव रूपलावण्यादीनां पुरुषेणोपभुज्यमानायां य श्रीरङ्गच्छायाविशेषः सा छाया मन्दावस्था शोभा, मध्यावस्था कान्तिस्तीवावस्था दीप्तिः । शोभा यथा
करकिश (स) लयं धूत्वा (धुत्वा) विमार्गनिवाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहुः पत्सुर्नेत्रे विहस्य समाकुला
सुरतविरतौ रम्या तन्वी मुहर्मुहुरीक्षते ।। कांतियथा
उत्तिष्ठन्त्या रतान्तरमुपगपती पाणिनैकेन कृत्वा धत्वा चान्येन वासो विगलितकवरीभारमंसं वहन्त्या। भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङग्य तन्वीं नीतवपुरलसद्बाहुलक्ष्म्याः पुनातु ।। दीप्तिपथा
आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलां कांचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्बुनः सीकरैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org