SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट चोंज मौलिहदोर्मणी प्रकलयन सन्मस्तकस्चस्तिकस्तर्जन्या रिपुतर्जनो वृषगतिनिश्शेषदोषापहाः । रक्ताङ्गस्त्रिफणारुणाम्बरधरो रुद्रावतारस्थितिवेश्यो मङ्गल एष पार्थिवशिषोर्वीरोऽवतात् तक्षकः ॥ ३॥ शूद्रो कुञ्जरवाहनो द्विभुजवान् पीतांशुकस्फीतिमान् नीलो वारुणकालकूटकलितः स्फूर्जत्फणापञ्चकः । रेखाणां त्रितयेन लाञ्छिततनजियां मणी धारयन मौलो वक्षसि रक्षतु त्रिजगतीं कर्कोटनागो बुधः ।।४।। चंचच्चन्द्रकबिन्दुपञ्चकशिराः शुक्लाम्बरः स्वर्णरुक् शूद्रः सप्तफणस्तुरङ्गममनो माहेन्द्रहालाहलः । पाणिद्वन्द्वधतारविन्दकलशोभिक्षामणी मस्तके .. बक्षस्याकलयन् प्रपालयतु वः श्रीपद्मनागो गुरुः ॥५॥ वैश्यः श्यामवपुर्वलक्षवसनो मौलिस्त्रिशूलांकितः पञ्चत् पञ्चफणाञ्चितांशिषिगतिबिभ्रत्फणं वारुणम । शुक्र: पाणियुगस्थकम्बुकलशः स्थामां दधानः शिरो हृद्देशस्थमणी प्रयच्छतु महापद्मो महासम्पदम् ।।६।। रक्तः क्षत्रियगोत्रजो वशफणः कुन्दावदाताम्बरः प्रेसद्वह्निविषः शिरोहृदययोघण्टामणी द्योतयन् । शौरिः स्पन्दनवाहनः शशिकलाश्रीकर्ककण्ठस्थलो हस्तंद्वन्द्वनिवेशिशंखकलश: शंखः सुरायास्तु वः ।। विप्रः सप्तफणो भुजद्वय युतः खण्डेन्दुलक्ष्म्यान्वितः खेलन्मांसलधूमधूमलविभो वायव्यहालाहलः ।। खेला मस्तकहृन्मणिस्थितिशुभः स्वर्भानुवेलोदयी नागःश्री पुलिको विनीलवसनः पद्मासनः पातु वः ।।... क्षेत्रपालेष रूपाणि नानारूपाणि कीर्तयेत ।' शिरःफणिफणावाल्यं नृत्तेहिधुघुरारवः ।। द्वादशाविसंगोष्ठी विश्वेदेवास्त्रयोदशः । षत्रिंशत् तुषिताश्चैव षष्ठिराभास्वरा अपि ।। षत्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादर्शकोनपञ्चाशद्वायवोऽपि च ।। चतुर्दश तु वैकुण्ठाः सूशर्माणः पुनर्दश । बाध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः ॥छ।।: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy