SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्ति:-परिशिष्ट ९३ सिद्धैः प्रह्वोतमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन् बोधेरवाप्तौ न चलति इति वः पातु दृष्टो मुनीन्द्रः ।। आत्मा नास्ति पुनर्भवोऽस्ति सफलं कर्मास्ति कर्ता विना गन्ता नास्ति शिवाय वास्ति गमन बन्धोऽस्ति बद्धो न च। । इत्येवं गहनेऽपि यस्य न मनेहिन्यते शासनं खद्योतरिव भास्करस्य महिमा बुद्धः स सोऽव्यात् जिनः ।। पञ्चज्ञान: षडभिज्ञो दशा) दशभमिगः। चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः।। द्वादशारव्यो दशस्त्रिकाल: सुगतो मतः ।। पञ्चानां विज्ञानवेदनासंज्ञासंस्काररूपलक्षणानां स्कन्धानां ज्ञानमस्य पञ्चज्ञानः। दिव्यं चक्षुर्दिव्यं श्रोत्रं पूर्वनिवासानुस्मृति परचित्तज्ञानं आश्रवक्षयः सिद्धिश्चेति षोडशाभिज्ञानस्य षडभिज्ञः। दशभूमीबलानि पारमिता वार्हति दशाहः । दशभूमीर्गच्छति दशभूमिगः । यद् व्याडि:--- __ भूमयस्तु प्रमुदिता विमला च प्रभाकरी। अचिष्मती सुदुर्जयाभिमुखी च दुरङ्गमा। अचला साधुमती च धर्ममेषेति च क्रमात् ।। चतुस्त्रिंशतं जातकानि व्याघ्रीप्रभृतीनि जानाति चतुस्त्रिंशज्जातकज्ञः। यद्व्याडि:-- जातकानि पुनव्र्याघ्री शिबिः श्रेष्ठीविशोविशम् । हसो विश्वम्भरिः शको मैत्रीबलसुपारगौ॥ अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् । अधिगुह्य श्रेष्ठिजातं दमयन्ती महाकपिः ।। बोधिब्रह्मा महाबोधिर्वानरः शरभोरुकः । क्षान्ति वादी च हस्ती च कुडयाश्वेत्येवमादयः ।। दश पारमिता प्रज्ञा धरति दश पारमिताधरः। यद्व्याडि:दश पारिमता' तारा वृन्दा च जिनशक्तयः । मारीचीवत्त दुर्वासा मारीची वज्रकाल्यपि ।। द्वादशाक्षीण्यस्य द्वादशाक्षः, दशबलानि दानशीलक्षान्तिवीर्यध्याना शान्तिबलोपायप्रणिधानं ज्ञानलक्षणान्यस्य दशबलः, त्रय कायानिर्माणाद्या अस्य त्रिकायः। बुद्धाः स्युः सप्तविपश्चां पूर्वः शिखी द्वितीयकः । तृतीयो विश्वस्तस्तुर्यः कवच्छन्दोऽथ कांचनः । पञ्चमः काश्यपः षष्ठः शाक्यसिंहस्तु सप्तमः ।। शाक्यस्य जननी माया पिता शुद्धोदनो नृपः। देवदत्ता प्रजा सुर्यवंशत्वं गौतमोऽन्वयः ।। १. 'पारमिता तारमिता' इतीद पा.प.२ पुस्तके, तन्न समीचीनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy