________________
काव्यकल्पलतावृत्तिः -परिशिष्ट
स्रष्मृत्वमात्मारम्बोधोऽप्यधिष्ठा तु(तृ?) त्वमित्यपि। अव्ययानि दशैतानि तस्मिम् तिष्ठन्ति शङकरे। अष्टौ महासिद्धयस्तु स्मता भगवतस्त्विमाः। अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमापि च ।। ईशित्वं च वशित्वं च यत्र कामावसायिता। अणोर्भावो अणिमा महानपि भवत्वणुः ।। महतो भावो महिमा अल्पोऽपि नागनगरस्थगनपरिमाणो भवति । प्रापणं प्राप्तिः। सर्वे भावा: सन्निहिता भवन्ति तस्याः।
तद्यथा--
भूमिष्ठ एवांगुल्या चन्द्रमसं स्पृशति। प्रकृष्टः कामोऽस्य प्रकामः, तद्भाव: प्राकाम्यं, इच्छानभिधातः। नास्य भूतस्वरूपैर्भूम्यादिभिरिच्छाऽभिहन्यते। भूमानन्मद्यति मद्यति यथोदके। लघोर्भावो लधिमा, महानपि लघुर्भूत्वा इषीकतूल इवाकाशे विहरति । ईटे इत्येवंशील ईशी, ईशिनी भाव ईशित्वं, तेषां भूतभौतिकानां विजितमूलप्रकृतिः। स नय मीत्पादो, यो विनाशो, यच्च यथावदक्यवस्थानं, तेषामीष्टे। वशिनो भावे वशित्वं, भूतानि पृथिव्यादीनि, भौतिकानि गोघटादीनि । तेषु वशी स्वतन्त्रो भवति। ते त्वां स्वपश्यस्तत्कारणतन्मात्रपथिव्यादिपरमाणु वशीकरात्तत्कार्यवशीकारः। तेन तानि यथा-अवस्थापयति यथाऽयतिष्ठन्त इत्यर्थः । यत्र कामस्तत्रावश्यतीत्येवंशीलो यत्र कामावसायी, तभावस्तता सत्यसंकल्पता, विजितगुणार्थतत्वो हि यद्यदर्थतथा सङकल्पयति तन्तस्मै प्रयोजनाय कल्पते विषमप्यमतकार्ये भोजयन जीवयी (य)ति ॥छ।। शिवो गजपूषपुरानङ्गकालान्धकसखा सुहृत् । गजा सुहृत् गजा सुरहंतत्वात्। पुपुषा सुहृत् दक्षाध्वरध्वंसने हि महेश्वरेण पूर्णोदता पातिताः। यद्वामनपुराणे
ततः क्रोधाभिभूतेन पूष्णो वेगेन शम्भुना।
मुष्टिनाहत्य दशना: पातिता धरणीतले ।। पुरा सुहृत् शंभोरागेन्यबाणेन त्रिपुरस्य पुष्टत्वात् । अनङ्गसुहत, शम्भोस्तृतीयेनाग्निना कामस्य दग्धत्वात्। कालासुहृत्, दक्षमखध्वंसे यमस्य जितत्वात् । अन्धकासुहृत्, अन्धकोटिसमरे शूलिना शूलेन प्रोतः । मखासुहृत्, दक्षस्य हि मखे महेश्वरेण विध्वंसितः ॥छ।।
ब्राह्मयाद्यास्तु चचिकान्ता शूलिन सप्त मातरः । ब्रह्मण इयं ब्राह्मी ब्रह्माणीति शिवप्रमिद्रासो आद्याया सांताब्राह्माद्याः शम्भौ परिकरभूतं यदुक्तम् । कथिताद्या, ब्रह्माणी, सिद्धिर्माहेश्वरी, वैष्णवी, वाराही, चामुण्डामातर सप्त। गणानु प्रथमाः पारिपदाः कूष्माण्डकादयः। तत्र कूष्माण्डकेकलिकिलो गणपतिप्रियः । भृङ्गी वर्मी भाङ्गरीटी पुनर्भङ्गिवर्मी भृङ्गि रिटि: सलः ।
महाकालः पुनर्बाणो भूतबाहुर्वषाणकः । नदीश्वरः पुनर्नदी द्वारपालौ च तावुभौ । वीरभद्रस्तु वीराजो हेरुकश्व कृतालकः ।। अथ चण्डो महाचंडः कूष्माण्डी कंकणप्रियः । मज्जनान्मज्जनौ छागछागमेषौ महाधसः ।।
१. 'दर्पणं चार्पणं' द.प.,पा.प. १, २. अनेनछन्दोमङगः जायति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org