SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ काव्य कल्पलतावृत्तिः-परिशिष्ट अस्य पल्यौ तु सावित्रीगायत्र्यो भारतीसुता। विष्णुनाभ्याम्बुजे जन्माश्रयावूद्धर्व दिगीशता ।। भारती शुभ्रभा हंसवाहना कमलासना। चतुःपाणिस्थपद्माक्षसूत्रवीणाकमण्डलुः ।। चाविद्यमहानिधिः पिशुनं कण्ठंकनालजं धातुः। वक्त्राम्भोजचतुष्टयमुद्दामरजोगुण जयति ।। आसन्ने दयिताधरब्य तिकरे स्मेराणि लब्धे पुनः सन्तुष्टानि मलीमसानि चलिते याते विषण्णानि च। चुम्बन्त्या बदनानि बल्लभतया चत्वारि पर्यायतः सावित्र्या विहितप्रदक्षिणविधिर्दी? विधि. पातु वः ।। इति ब्रह्मा। अथेश:-- शिवे जटा शिरोगङ्गा चन्द्रभालेक्षणामला। विषश्यामलकण्ठत्वमाधारो भस्मगौरता ।। अङ्गेऽस्ति फणभृद्भूषा नृत्तं वृषभयानता। वासुकिमुण्डमाला च भूपा कण्ठकपर्दयोः ।। कल्पान्तकालनृत्तत्वं सर्वत्वंसंहारकारिता। गौरी विवाहक्रीडेपिदपातरतादयः ।। यथा ममैव । मौलि स्वर्गधनी जलाक्षिशिखिनोभलाग्रपीयुषरुक पीयूषद्रवकण्ठहालहलयोभूषास्थियोषाङ्गयोः । आकिञ्चन्य जगत्त्रयेश्वरतयोर्यत्र स्थितिद्वेषिणो-- रप्यन्योन्यमबाधमेव विभवे तस्मै नमः शम्भवे ।। यथा ममैव । गङ्गाम्भः सुभगोत्तमाङ्गसरसी शम्भोर्जटाली महापालीमण्डलमण्डनोत्फणफणिश्रेणिद्रुसांद्राभितः ।। कल्याणवतती: प्रतानयतु वो यस्यां कुमारस्सरं स्तोतु बालीकृतमुण्डदामखुरलीकेलिश्रमे खेलति ।। इत्यादि । शिवस्य पञ्च मुखानि, नव शक्तयोऽष्टौ मूर्तयो, दशाऽव्ययानि । यद्व्याडि:-- पञ्चवक्त्रो नवशक्तिरप्टमूर्ति र्दशाव्ययः। सद्योजातवामदेवाद्योरतत्पुरुषाः पुनः ।। ईशानस्य वक्त्राणि वामाद्यास्तस्य शक्तयः । वामा ज्येष्टा शिवा रौद्री चित्रोन्मादकरामुखा। काली कलेवरा भूतदमनी वनदेवताः। सूर्याचन्द्रमसा वह्निरापोभूमिर्नभामरुत् ।। यजमानश्चतस्याष्टौ मूर्तयो मातृकाश्च ताः । ज्ञानं वैराग्यमैश्वर्यं तपः, सत्यं क्षमा धृतिः।। १. 'प्रमथा'-स.प. १, २। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy