________________
काव्यकल्पलतावृत्ति: परिशिष्ट
३१
क्षोदयति, क्षोदिष्ठः क्षोदीयान् । ह्रस्वादिभ्यः पृथ्व्यादित्वादिमन् । केचित स्थलदुरयूनां करोत्यर्थे णो नेच्छंति । स्थलयति दूरयति युवयति ।।छ।।
त्यस्वरादेः तुप्रत्ययस्यान्त्यस्वरादेशचावयवस्य इमनिणीष्ट यमुष च परेषु लग्भवति । कर्त मतमाचष्टे-कारयति करिष्ठ: करीयान् । कर्तारमाचष्टे-कारयति मातयति भ्रातयति इत्यत्र त्वनर्थत्वात् तृशब्दस्य न भवति । पटिमा, पटयति, पटिष्ठः पटीयान्; लघिमा, लघयति, लघिष्ठः, लघीयान् ।।छ।।
नैकस्वरस्य एकस्वरस्य शब्दरूपस्य यान्त्यस्वरादिरवयवस्तस्य इमनीयष्टीयसुषु च परेषु लग भवति । ग्विणमाचष्टे-श्रजयति, श्रजिष्ठः, श्रजीयान् । एकस्वरस्येति कि ? वसुमन्तमाचष्टे-वसयति, वसिष्ठः, वसीयान् । योगविभागादवणे वर्णस्येति-लोपस्यापि प्रतिषेधः । श्रेष्ठः श्रेयान । इति तद्धितशब्दोद्धारः ॥छ।।
अथाख्यातशब्दाः-कर्तरि रुचादिडानुबन्धेभ्यः । रुचादिभ्यो डानबन्धेभ्यश्च कर्तर्यभिधेये आत्मनेपदानि भवन्तिरुच रोचते, वर्द्धते; शीङ शेते। चक्षिा आचष्टे । वेदे अनुदात्तस्वरेण परस्मैपदिनः, उदात्तेन आत्मनेपदिनः, समाहारेण उभयपदिनो धातवः पठ्यन्ते शर्ववर्ममते रुचे इत्यनदात्त उपलक्षणम् । तेन रुच प्रकारेभ्य आत्मनेपदं कर्तरि । आदिग्रहणाद् बहुवचनाच्च गणो गृह्यते । तथाहि निर्वश' आत्मनेपदीनि ससम्बन्धः । सर्वत्राभिनिविशते । गणेऽस्मिन् लाक्षणिकोपपदं न ग्राह्यम् । तेन मधुनि विशन्ति भृङ्गाः । परिव्यवेभ्यः क्रीड्-परिक्रीणते विक्रीणीते; लाक्षणिके वनं बहु विक्रीणाति ॥छ।।
विपराभ्यां जि:-विजयते पराजयते; लाक्षणिके वनं बहु विजयति पराजयति ॥छ।। ..
आडो दाडनात्संप्रसारणे-अस्यास्य प्रसारविकासे विद्यामादत्ते। उष्ट्रोमुखं व्याददाति प्रसारयतीत्यर्थः; कुलं व्याददाति विकसतीत्यर्थः। आत्मग्रहणात् परमुखप्रसारणत्वादात्मनेपदमेव व्याददते। कीटकाः पतङ्गमखं आडम्बिना प्रददाति ददाति ॥छ।।
आगमिन् क्षान्तौ क्षान्तिः प्रतिक्षणम्। आगमय स्वगुरून् कञ्चित् कालं प्रतीक्षस्व । आडो नु प्रस्थी। आनुते शृगालः, स्वयमेव उन्मत्तः शब्दायते, आपृच्छते गुरुन् संदेहं, आपृच्छस्व प्रियसखममुम्। आङ पूर्वः प्रच्छिरत्र सकर्मको ग्राह्यः । समोग पच्छिसूत्र प्रच्छिरकर्मक आत्मनेपदीत्यनयोविशेषः। आनपर्याभ्यः क्रीड़ । समो कजते। अनपर्याङ पर: क्रीडः। संपूर्वो यमकजने। अनुक्रीडते, परिक्रीडते, संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः। कूजने संक्रीडन्ति अनामि, अव्यक्तं शब्दायन्ते। कर्मप्रवचनीयत्वे तु शब्देनात्मनेपदम् । गामनुक्रीडन्ति गोपालाः ॥छ।।
अपस्किर् कृती दादिकः । अपस्किरते वृषभो ह्रष्टः; अपस्किरते कुर्कुटो भिक्षार्थी; अपस्किरते स्वः निवा सार्थी। अपाच्चतुष्पात् पक्षिशुनि हृष्टान्नाश्रयार्थे इति सुट्, सुटं विना अपकिरति ।।छ।।
अङ्गत्यनुकरणे हा , पैत्रिकमश्वा अनुहरन्ते; पितृवद्गच्छन्तीत्यर्थः । गतेरन्यत्र नटो राममनुहरति ।।छ।।
आशिषि नाथः । सर्पिषो नाथते, सपिम भूयादित्याशास्ते। नाथ इति सूत्रेण कर्मणि षष्ठी। आशिषीति कि? नृपमननाथयति, याचतीत्यर्थः। यद्याशिष्यात्मनेपदं तत् कथमात्मनेपदिषु पाठः। सत्यं रुचादेश्च व्यञ्जनादेरित्यनेन प्रत्ययार्थः नाथनः ॥छ।।
शपथे शप, मैत्राय शपते। श्लाघह नुस्थाशपां प्रयोज्य इत्यनेन चतुर्थी व्याशप् उपलम्भते (उपालम्भे?)। मैत्राय शपते मैत्रे गते मृते वा तदनुरूपं चेष्टत इत्यर्थः । अन्यत्र छात्राय शपति आक्रोशतीत्यर्थः ।।छ।।
१. निविश-ला.प; निवेश-दे.प. २. विजयते-ला. प. देप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org