________________
काव्यकल्पलतावृत्तिः परिशिष्ट
दिकपतिवंशपत्रपतितं भरनभनलगा:, वंशदलमित्यन्ये ।--
राजसि वंशपत्रपतितैर्जलदजलकर्णर्यद्यन्मौक्तिकसमैः क्षणमिह महितः । किन्तु तवान्तरङ्गमणय: प्रतिदिनमपि यः बिभ्रति भपमौलिषु पदं जयसि जगति तैः ।।७३।।
कृतदिग्पतिकातिशायिनी समजभाजगौगः, यादवीत्यन्ये ।--
खल तामभिलाषुकोऽभवत् रतिपतिर्यदेतां रतिरूपजयातिशायिनी मगदृशं (शी)? कृशाङ्गीम् । सुभग त्वयि भावमद्भुतं विदधतीं विदग्धां विशिखैः परिताडयत्यसौ गतकृपं कृतार्थः ।।७४।।
अष्टादशाक्षरम् ।
रुदै शिछन्नामरौत्यौरयुगलं च काञ्ची संकीर्तिता।--वाचालकाञ्चीत्यन्ये । रत्युल्लासेऽपि मुक्तश्रमसमुत्साहां नितम्बस्थलीं, प्रेक्ष्याऽमुष्या: प्रशंसां व्यरचयत् काञ्चीक्वणछद्मना । किञ्चास्याः कामयुद्धोत्सवविधौ स्वेदोदबिन्दुच्छलान् मुक्तापढें ललाटे किल मुदाऽबध्नान्मनो भूप्रभुः ।।७५।।
स्तौ न्यौ यो यो च: स्यात्कुसुमितलतावेल्लितो पञ्चषडिभ:
सर्वाङगरङगकुसुमितलतावल्लितः काननानां तानातोद्यद्रनाभरणरमणीसङिगनः कामिनश्च । सञ्जातोल्लासं लसति पवने कम्पसम्पत्परीत्याद्याकुजन्मत्तभ्रमररणितैः कृजितं कल्पयन्ति ।।७६।।
वेदैरश्वैः कल्पितयतिरियं चित्रलेखाभिधाना
कान्तो नित्यं न्यसति मगमदैः त्वन्मखे चित्रलेखा दर्शदर्श रताः स्फटिकमकुरे किं मदं यासि मुग्धे । प्रेमोत्कर्षश्चेल्लसति रसितस्तस्य चित्ते तदीदक कर्तव्यानां कोऽप्यवसरलवः किं भवेद् भाग्यहीने ॥७७।।
वेदैरश्वर्मभनययगैर्गीयते चन्द्रलेखा
मानं मानं दयहृदयसदावासदानेन मुढे प्रौढप्रेम्णि प्रणयिनि विनते सीदति त्वं प्रसीद । यन्मत्याहं तव सृजसि ततः प्रार्थनां नान्यथा मे कि च प्राच्यां सम दयति मदोल्लेखिनी चन्द्रलेखा ॥७८।।
म्नौ जौ चेद्युगतुरगयतिश्चलं परिकीर्तितम्
आयुर्वायुप्रचयपरिचलध्वजाञ्चलचलम् चित्तं मत्तद्विपसततनतोन्नतश्रतिसोदरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org