SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः परिशिष्ट नीतिप्रीते ततः कीर्तिस्तेऽत्र चित्रा' । चैत्रे चन्द्रस्योच्चश्चित्राचम्बितश्चन्द्रिकेव ।।५९।। तो भो ययौरकलितौ कथितो मृदङ्गकः । रङ्गत प्रसङ्गरससङ्गमचङ्गमङ्गना सेयं मृदङ्गरवभङ्गतरङ्गसङ्गतम् । रङ्गोदनङ्गनृपमङ्गलमङ्गनाश्रिता रङ्गेत्र चित्रगतिरङ्गतिरङ्गदेवता ॥६०।। रानरौ भरयतौ निगदन्ति हि सुन्दरं त्वन्महोदभतभुजौ रिपुभमिभजां यशोभारतारपटलीमभिगाल्य भवद्यशः । एकमेव नपपद्मभवः शशिसुन्दरं कुर्वन्तः कतिचनोडमिषादगलितालवाः ॥६१।। षोडशाक्षरम् । यसौमौत्सौगौं षडिभर्यतिरिति जयानन्दमेतत, प्रवरललितमित्यन्ये । उदेतीन्दुः प्रमोन्मदकूम दिनीकेलिकार: प्रसर्पत् कन्दर्पकत्रिभुवनजयानंदकंदः । दिशां हस्तादर्शो जननयनपीयूषसत्रं रतिक्रीडागारं गगनकमलाकेलिपद्मम् ।।६२।। म्भौ त्सौ तोगो मदनललिता वेदतुविरतिः । विस्मेरान्तः करणविलसद्भावैकपिशुनै: सद्यो माद्यन्मदनजनितानन्तोपकरणः । वारंवारं तरललुलितर्नेत्रान्तवलनैः । केयं बाला मदनललिता प्रोल्लासयति माम् ॥६३॥ म्भौ सतो तोगः कोमलता वेदैः शरैश्चेद्युतिः । शंके श्लिष्यतकोमललताबालप्रवालच्छलोन्मीलद्रागाः स्मरकुसु मश्रेणिस्मिताः कम्पिनीः । दूरात प्राप्तश्चन्दनवनस्पन्दोदभवं सौरभं बिभ्राणोऽयं दक्षिणमरुन्मन्दप्रचारोऽभवत् ॥६४।। सप्तदशाक्षरम् । गुहास्यविश्रान्तिर्यमनसभलागः शिखरिणी रमन्ते हेमन्ते विकुसुमसमग्रांह्रिपततौ कृतानन्दा कुन्दे किल दिनविनोदाय मधुपाः । • वसन्ते विस्मेरा खिलशिखरिणीह क्षणमपि स्पृशन्त्येते प्रीता न पुनरपरं चम्पकतरोः ॥६५।। १. 'प्रसङ्ग' ला.प., दे.प., पा.प.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy