SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः पादाङगुलीभिर्युधि केऽपि के पि कराङगुलीभिः परिचर्णनीयाः । घात्या द्विषोऽमी शतमित्यमर्षात् कृष्णासुनः पञ्चभिरप्यभाषि । अहिपतिमुखगङ्गामुखपङकजदलरविकरेन्द्रनेत्राणि ।।२७७।। विश्वामित्राश्रमवर्षार्जुनभुजसामवेदशाखाश्च । पुण्यनरदष्टचन्द्राः सहस्रसंख्या अमी ज्ञेयाः ।।२७८॥ बथा-- सहस्रपत्रपत्राणां प्रत्येकं स्मरताकृते । सहस्त्रकरविस्तारं किं सहस्त्रकरोऽकरोत् । एवमत्र ग्रन्थगौरवभयादसडकलित्ता अपि संख्या: काव्योपयोगाय प्रेक्षावद्भिः प्रेक्ष्यःः। इति श्रीजिनदत्त० अर्थसिद्धिप्रताने चतुर्थे मंगलषक: उष्ठः ।। म. टी. महाकाली ८ गौरी ९ गान्धारी १० सर्वासमहाज्वाला ११ मानवी १२ वैराट्या १३ अच्छुप्ता १४ मान ५ महामानसी १६ रूपाः षोडशेत्यादि सुगमम् । सप्तदश संयमा आस्रवाद्याः । यदुक्तम्-- पंचास्रवादि विरमण पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्च संयम सप्तदशभेदः ।। अष्टादश विद्याः । अष्टादश पुराणानि, यथा-- ब्राह्मा १म्भोरुह २ विष्ण ३ वाय ४ भगवत्सं ५ ततो नारदं ६ मार्कण्डेयमथाग्निदैवतमिति ८ प्रोक्तं भविष्यं ९ तथा । तस्माद ब्रह्मविवर्त्तमंज्ञमदितं १० लिङ्ग ११ वराहं १२ स्मतं स्कान्दं १३ वामन १४ मत्स्य १५ कर्म १६ गरुड १६ ब्रह्माण्डमष्टादशं ।। अष्टादश द्वीपाः । स्मृतयोऽप्टादश । यथा--- मन्च १ त्रि २ विष्णु ३ हारीत ४ याज्ञवल्क्याः [क्यो] ५ शनों ङ्गिराः ७ । यमाः ८ पस्तम्ब ९ संवाः १० कात्यायन: ११ बृहस्पती १२ । परासरो १३ व्यास १४ शंखलिखितौ १५ दक्ष १६ गौतमौ १७ । शतातपवसिष्ठाश्च १८ धर्मशास्त्रप्रयोजकाः ॥२॥ एतेऽष्टादश स्मृतिकारस्तैः कृताः स्मतयोऽप्यष्टादश, मनस्मतिः अत्रिस्मतिरित्यादि । तत्र शङ्कलिखितौ भ्रातरौ ताभ्यां कृता स्मृतिस्तथा । शतातपवसिष्ठभ्यां कृता स्मतिः । ज्ञाताध्ययनानि एकोनविंशतिरित्यादि ।। अथ विंशतिसंख्या यथा---करशाखा अङ्गल्यो विंशतिः । श्रीभर्तुर्लक्ष्मीवतो हस्ताङ्ग लीपर्वसु विंशति: पकाविंशतिः । सकलजनस्य नवा अङ्ग ल्यश्च विंशतिः । दशकन्धरस्य नेत्राणि भुजाश्च विंशतिरित्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy