SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ काव्यकल्पलतावृत्तिः यथा- यथा- यथा- लीक्यालय सप्तनिर्भयभयप्रध्वंसलीलाजय-स्तम्भा दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः । प्रीतिप्रोक्षितसप्ततत्त्वविटपिप्रोद्धूतनूत्लाङकुरा शीर्षे सप्तभुजङ्गपुङ्गवफणाः पार्श्वप्रभोः पान्तु वः ॥ दिग्देश कुम्भिपालाः कुलपर्वतशम्भुमूर्तिवसवश्च । योगाङ्गव्याकरणब्रह्मश्रुत्य हिकुलान्यष्टौ || २६६॥ जयन्तः । अथावनीभारमुरीचकार जयातिरेकप्रवरो गीतं दिगन्तेषु यशो यदीयं श्रोतुं दधेऽष्टश्रुतितां विधाता ॥ भूखण्डकृत्तरावणमुण्डसुधाकुण्ड जिनपद्मानि । ग्रैवेयसीनगुप्त निधिग्रहास्तु नवसंख्या: ।। २६७ ।। Jain Education International ध्याते यत्र नवग्रहात्तिरुदयं नायाति तत्त्वानि यो व्याचख्यौ नव यस्य वाङ्नवसुधाकुण्डत्रपाकारिणी । नित्यं यत्पदपद्मयुग्मपुरतः पद्मानि देवा नव । व्यानुर्नवमो जिन स जयति श्रीपुष्पदन्तप्रभुः || म. टी. अथ षट्सङख्या यथा- रसा तिक्त १ कटु २ कषाय ३ आम्ल ४ मधुर ५ लवण ६ रूपाः । रागाः षट् श्री गो१ वसन्तश्च २ पञ्चमो ३ भैरवस्तथा । मेघरागश्च ५ विज्ञेयः षष्ठो नट्टनारायणः ॥१॥ इति । वज्रकोणाः षट् । त्रिशिरो नेत्राणि धनदलोचनानि षट् । अन्तरारयः - काम १ क्रोध २ लोभ ३. मान ४ मद ५. हर्षरूपा: ६ । गुणाः सन्धि १ विग्रह २ यान ३. आसन ४. द्वैध ५. आश्रयरूपा ६ । तर्कः षट्दर्शनविचाररूपः । दर्शनानि जैन १. मीमांसक २. बौद्ध ३. सांख्य ४. शैव ५. नास्तिकरूपाणि ६. । गुहमुखानि षण्मुखमुखानि षट् । भूखण्डानि षट् - दक्षिणमध्यमखण्ड १, गङगानिष्कुटखण्ड २, सिन्धुनिष्कुटखंड ३, उत्तरमध्यमखण्ड ४, गङ्गा निष्कुटखंड ५, सिन्धु निष्कुटखण्ड ६, रूपाणि । चक्रिणः षट् — मान्धाता १. धुन्धमारश्च २. हरिश्चन्द्रः ३ पुरूरव: ( वाः ) ४ | भरतः ५. कार्तवीर्यश्च ६. षडेते चक्रवर्तिनः ॥ १॥ २२५ इति अत्रोदाहरणानिस्पष्टानि । सप्तसंख्या यथा-द्वीपाः सप्त- जम्बू १. प्लक्ष २. कुश ३. क्रौंच ४, शाल ५. शाल्मलि ५६. पुष्कर ७. रूपाः । रविवाहा : सूर्याचा सप्त । पातालानि सप्त । शवाहमुखानि सप्त । दुर्गतयः सप्त । समुद्राः सप्त-लवण १ क्षीर २. For Private & Personal Use Only www.jainelibrary.org
SR No.001586
Book TitleKavyakalpalatavrutti
Original Sutra AuthorN/A
AuthorAmarchand Maharaj, R S Betai, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy