________________
काव्यकल्पलतावृत्तिः
महाशब्दा घनेन्द्रेभतार्यपक्षाब्धिवीचय: । अब्धिमन्थः शिवस्याट्टहासस्तु डमरुध्वनिः ॥२०७।। सिंहोष्ट्रहनुमद्रक्षःक्ष्वेडासांराविणो रवाः । नान्द्यब्धिकृष्णशङखौघमल्लदोः स्फालनध्वनिः ।।२०८।। निर्घातरथघोषज्याटङकारो गजवाजिनः । भटहक्काः शिखोद्धारः स्फारघर्घरनिर्झराः ।।२०९।। घण्टाश्चैत्यगजादीनां कन्दरादिप्रतिध्वनिः । वीराणां निनदो दूराकारणं रुदितारवाः ।।२१०।। ततं वीणाप्रभृतिक तालप्रभृतिकं धनम् । वंशादिकं तु सुचिरं विततं मुरजादिकम् ।।२११।। एतच्चतुर्विधं वाद्यं बन्दी पञ्चारवो मतः । नान्दी द्वादशतूर्याणां निर्घोषो नाटकादिषु ।।२१२।। भम्भा मउन्द मद्दल करडा झल्लर हुडुक्क कंसाला । भेरी तिलिमा वंसो सङखो पणवो यनाडए नन्दी ।।२१३।। डक्का ढक्का डमरु अ काहल बक्क भेरि भाणगं पडहो । जुगससंखकरडपोणय मद्दलकंसाभरणनन्दी ।।२१४।। सुगन्धानि तु कर्पू रकसरीयक्षकर्दमाः । वासो मलयजं धूपोऽगुरुमी नमदो यशः ।।२१५।। सुगन्धितैलं स्वर्गद्रुपुष्पाणि कुसुमद्रुतिः । पद्मिनीस्त्रीमुखं मेघसिक्तोवी ग्रन्थिपर्णकः ॥२१६।। जातीपत्रं लवङ्गलाकक्कोलौ जातिकाफलम् । तज्जा तमालपत्राणि मद्यं सप्तच्छदो मदः ।।२१७।। शालयः कुसुमं जाती केतकी बकुलोऽम्बुजम् । पाटलाचम्पकौ मल्ली करुणी शतपत्रिका ।।२१८।। दुर्गन्धानि वपुःस्वेदकुथितान्नादिपूतयः । मृतश्वानादिदेहानि पुरीषापानमारुतौ ।।२१९।। शिशिराणि सज्जनवचः प्रभुः प्रसादेष्टसङ्गसत्सङ्गाः । काव्ययशःसन्तोषाः सुधाम्बुहेमन्तहिमकराः करकाः ।।२२०।। करम्भविभिटमधुक्षीरेक्षुरसशर्कराः । रम्भाधारागृहाम्भोजजलाश्चिन्दनद्रवाः ।।२२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org