SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३४६ १० [काव्यानुशासनम् १८८) कर्तव्यवशादायाते एव हस्तादिकर्मणि यद् वैचित्र्यं स विलासः ॥४५॥ यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यबुद्धिरथ च सुकुमारकरादिव्यापारणं तल्ललितम् । अन्ये तु (४२) 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः [ ] । १८९) व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् ॥४६॥ व्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौग्ध्यलजादिपरिग्रहः । ततो भाषणावसरेऽप्यभाषणं विहृतम् । यथा पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥७३६।। [कुमार० ७.१९] केचित् (४३) बाल्यकुमारयौवनसाधारणविहारविशेष क्रीडितम्, क्रीडितमेव च प्रियतमविषयं केलिं चालङ्कारौ आहुः (सरस्वतीकण्ठाभरण ५.१६७ कारिकावृत्ति, पृ. ५१९) । यथा मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।। रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥७३७।। [कुमार० १.२९] व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदु-मनाः प्रियं जघानोन्नतपीवरस्तनी ॥७३८।। [किरात० ८.१९] १९०) शोभादयः सप्तायत्नजाः ॥४७॥ शोभाकान्तिदीप्तिमाधुर्यधैर्योदार्यप्रागल्भ्यनामानः सप्तालङ्कारा अयत्नजाः । क्रमेण लक्षयति१९१) रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीव्राङ्गच्छाया शोभा कान्तिीप्तिश्च ॥४८॥ तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि च्छायान्तरं श्रयन्तीति सा च्छाया मन्दमध्यतीव्रत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्तिर्दीप्तिश्च भवति । शोभा यथा करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहुर्पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः ॥७३९॥ [अमरु० ९०] १५ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy