SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ३२२ [काव्यानुशासनम् (१८) देवा धीरोद्धता ज्ञेयाः स्यु/रललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ।। धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा । इति चत्वार एवेह नायकाः समुदाहृताः ॥ [नाट्यशास्त्र ३४.१८-१९ (C.s.s.); नाट्यशास्त्र २४.१८-१९ (G.O.S.)] इत्यन्तरश्लोको। अथ नायकस्य शृङ्गारित्वेऽवस्थाभेदनाह१५९) ज्येष्ठायामपि सहृदयो दक्षिणः ॥१६॥ कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वाद् दक्षिणः । यथा प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः । सविश्रम्भः कश्चित् कथयति च किञ्चित् परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ॥६९२।। 1 [धनिकस्य, दशरूपकावलोके (प्र. २. सू. ७)] १६०) व्यक्तापराधो धृष्टः ॥१७॥ १५ यथा लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥६९३॥ [अमरु० ६०] १६१) एकभार्योऽनुकूलः ॥१८॥ यथा इयं गेहे लक्ष्मीरियममृतवर्तिनयनयोरसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥६९४।। [उत्तरराम० १.३८] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy