________________
॥ सप्तमोऽध्यायः॥
इह च काव्यं नायकादिप्रतिबद्धं भवतीति नायकादिलक्षणमुच्यते । तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिम्रः प्रकृतयो भवन्ति । तत्र केवलगुणमय्युत्तमा । स्वल्पदोषा बहुगुणा मध्यमा । दोषवत्यधमा। तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति । उत्तममध्यमप्रकृतियुक्तस्तु
१४४) समग्रगुण: कथाव्यापी नायकः ॥१॥
समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभादिगुणान्वितश्च । तत्र नेतृत्वादिगुणबाहुल्याद् मध्यमप्रकृतावपि समग्रगुणता । नेतृगुणाश्चेमे
(३७) नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः ।
रक्तलोकः शुचिर्वाग्मी व्यूढवंशः स्थिरो युवा ॥ बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ।।
__ [दशरूपक २.१-२] कथा प्रबन्धस्तद्व्यापी । नयति व्याप्नोति-इतिवृत्तं फलं चेति नायकः । तस्य सात्त्विकान् गुणानाह१४५) शोभाविलासललितमाधुर्यस्थैर्यगाम्भीयौदार्यतेजांस्यष्टौ सत्त्वजास्तद्गुणाः॥२॥ इह सत्त्वं देहविकारस्तस्माजाताः । क्रमेण लक्षयति१४६) दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा ॥३॥ यतः शरीरविकाराद्दाक्ष्यादि गम्यते सा शोभेत्यर्थः । दाक्ष्यं यथा
स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः । शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥६७८॥
[महावीर० १.५३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org