________________
[काव्यानुशासनम् ऐकपद्येन सङ्करो यथा
मेरूरुकेसरमुदारदिगन्तपत्रमामूललम्बिचलशेषशरीरनालम् । येनोद्धृतं कुवलयं लसता सलीलमुत्तंसकार्थमिव पातु स वो वराहः ॥६७७॥
[जीवकस्य, सुभाषितावलौ (श्लोक ५४)] अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ । यद्यप्यनेकविषयमिदं रूपकमखिलवाक्यव्यापि तथापि प्रतिपदं रूपकसद्भावादेकपदानुप्रवेशो न विरुध्यते । इत्युक्ताः शब्दार्थालङ्काराः ॥
कः पुनरङ्गाश्रितत्वाविशेषेऽप्ययं शब्दस्यालङ्कारोऽयमर्थस्येति विशेषः । उच्यते-दोषगुणालङ्काराणां __ शब्दार्थोभयगतत्वव्यवस्थायामन्वयव्यतिरेकावेव निमित्तम् । निमित्तान्तरस्याभावात् । ततश्च योऽलङ्कारो यदीयौ भावाभावावनुविधते स तदलङ्कारो व्यवस्थाप्यत इति । __ यद्यपि पुनरुक्तवदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानुविधायिनोऽपि दृश्यन्ते तथापि तत्र शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमित्युभयालङ्कारत्वमनपेक्ष्यैव शब्दालङ्कारत्वेनालङ्कारत्वेन चोक्ताः । इह चापुष्टार्थत्वलक्षणदोषाभावमात्रं साभिप्रायविशेषणोक्तिरूप: परिकरो भग्नप्रक्रमतादोषाभावमात्रं यथा-संख्यं दोषाभिधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधहृद्यत्वविरहात् । भाविकं तु भूतभाविपदार्थप्रत्यक्षीकारात्मकमभिनेयप्रबन्ध एव भवति । यद्यपि मुक्तकादावपि दृश्यते तथापि न तत् स्वदते । उदात्तं तु ऋद्धिमद्वस्तुलक्षणं अतिशयोक्तेर्जातेर्वा न भिद्यते । महापुरुषवर्णनारूपं च यदि रसपरं सदा ध्वनेर्विषयः । __अथ तथाविधवर्णनीयवस्तुपरं तदा गुणीभूतव्यङ्ग्यस्येति नालङ्कारः । रसवत्प्रेयऊर्जस्विभावसमाहितानि गुणीभूतव्यङ्ग्यप्रकारा एव । आशीस्तु प्रियोक्तिमात्र, भावज्ञापने गुणीभूतव्यङ्ग्यस्य वा विषयः ।
प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालकाङ्कारान्तरतया वाच्यम् ।
१५
इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्ती
अर्थालङ्कारवर्णन: षष्टोऽध्यायः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org