SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ [काव्यानुशासनम् आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् ।। कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥६६९॥ [काव्यादर्श २.३६१] अत्र श्लेषोऽर्थान्तरन्यासस्याङ्गम् । ५ संशयेन संकरो. यथा निग्गंडदुरारोहं मा पुत्तय पाडलं समारुहसु । आरूढनिवडिया के इमीए न कया इह ग्गामे ॥६७०॥ [गाथासप्तशती ५.६८] अत्र शठतरपोटापाटलयोरन्यतरस्याः प्राकरणित्वाभावान ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति १० संशयः । तथा नयनानन्ददायीन्दोर्बिम्बमेतत् प्रसीदति । । अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥६७१॥ [का.प्र.१०.५७५] अत्र मुखेन सहाभेदारोपात् किमतिशयोक्तिः, किमेतदिति मुखं निर्दिश्येन्दुसमारोपणाद् रूपकं, किं १५ मुखनैर्मल्यप्रस्तावेऽन्योक्तिः, अर्थतयोः समुच्चयविवक्षया दीपकं, किं प्रदोषवर्णने विशेषणसाम्यात् समासोक्तिः, किं मदनोद्दीपकः कालो वर्तत इति तात्पर्यात् पर्यायोक्तमित्यनेकालङ्कारसंशयः । तथा शशिवदना सितसरसिजनयना सितकुन्ददशनपक्तिरियम् । गगनजलस्थलसंभवहृद्याकारा कृता विधिना ॥६७२।। [लोचने अभिनवगुप्तस्य] २० अत्र रूपकमुपमा वेति संशयः । यत्र तु मोहमहाचलदलने साशनिशितकोटिरेकापि ॥६७३॥ [ ] इत्यादावारोपितकुलिशकोटिरूपाया भक्तेर्मोहस्य महाचलेनोपमितमात्रस्य दलने कर्तृत्वं न हृदयावर्जकं स्यादिति रूपकस्य । _ 'ज्योत्स्नेव हास्यद्युतिराननेन्दोः' ॥६७४।। २५ इत्यादौ मुख्यतयावगम्यमाना हसितद्युतिर्वक्त्र एवानुकूल्यं भजत इत्युपमायाः साधकं प्रमाणमस्ति । स्मरन्ति ज्योत्स्नायाः शशिमुखि चकोरास्तव दृशि ॥६७५॥ इत्यादौ तत्त्वारोपे स्मरणानुपपत्ते रूपकस्य । राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।।६७६।। [का.प्र.१०.५७८] इत्यादौ सदृशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवादुपमायाश्च बाधकं प्रमाणमस्ति, न तत्र संशयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy