SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३०८ ५ १० १५ २० २५ स्वातन्त्र्येण शब्दालङ्कारयोः संकरो यथा कुसुमसौरभलोभपरिभ्रभ्रमरसंभ्रमसंभृतशोभया । अत्र यमकानुप्रासयोः । अर्थालङ्कारयोर्यथा चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥ ६६३ ॥ [ शिशुपालवध ६.१४] लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ ६६४|| अत्रेोत्प्रेक्षोपमयोः । शब्दार्थालङ्कारयोर्यथा अत्रानुप्रासरूपकयोः । अङ्गत्वेन संकरो यथा Jain Education International सोनत्थि एत्थ गामे जो एअं महमहंतलायण्णं । तरुणाण हिअयलूडिं परिसक्कंतिं निवारे ||६६५॥ [का.प्र.१०.५७०] कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते । [ बालचरित १.१५; मृच्छकटिक १.३४] कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति ||६६६ ॥ अत्र श्लेषो व्यतिरेकस्याङ्गम् । [स.कं. ३.१३१] अत्रातिशयोक्तिमपेक्ष्य भ्रान्तिरुद्भूता । तदाश्रयेण चातिशयोक्तिश्चमत्कारहेतुरित्येतयोरङ्गाङ्गिभावः । त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ । इयता युवयोर्भेदः स जडात्मा पटुर्भवान् ॥ ६६७॥ [काव्यानुशासनम् अत्र श्लेषो विरोधस्याङ्गम् । कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ ६६८ || For Private & Personal Use Only [काव्यादर्श २.१८५ ] [काव्यादर्श २.३३९] www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy