SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ २८२ [काव्यानुशासनम् अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलङ्कारान्तरम् । १२४) अर्थानां विरोधाभासो विरोधः ॥१२॥ जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्याऽविरोधेऽपि | परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वा यो विरोधस्तद्वदाभासमानो विरोधः । ५ तत्र जातेर्जात्या यथा एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे । मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥५८८।। [रुद्रट ९.३७] गुणेन यथा द्रोणाश्वत्थामरामेषु श्रुत्वा श्रुत्वा द्वयं स्थितम् । ब्राह्मण्यमथ शौर्यं च को न चित्रीयते पुमान् ॥५८९।। क्रियया यथा-'सिंहोऽपि परिभूयते' । द्रव्येण यथा सृजति च जगदिदमवति च संहरति च हेलयैव यो नित्यम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥५९०।। [का.प्र.१०.४८६] गुणस्य गुणेन यथा सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन् परमसि विमलो वितताध्वरधूममलिनोऽपि ॥५९१॥ [रुद्रट ९.३५] क्रियया यथा पेशलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥५९२।। द्रव्येण यथा., क्रौञ्चाद्रिरुद्दामदृषद्बुढोऽसौ यन्मार्गणानर्गलशातपाते । अभूत्रवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥५९३।। [का.प्र.१०.४८८] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy