SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ २७८ [काव्यानुशासनम् अत्र मदोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया लक्षणस्यायोग उक्तः एवम् एंतो वि ण सच्चविओ जीसे पसरंतपल्लवारुणराओ। मज्जणतंबेसु मओ तह मयतंबेसु लोअणेसु अमरिसो ॥५७६॥ इति [स.कं. ३.१२६ पृ. ३७२] अयोगस्य व्यत्ययो योगश्चतुर्थी । यथा पश्चात् पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥५७७।। काव्यादर्श २.२५७] __ अत्रानुद्गते चन्द्रे रागसागरवृद्धरयोगेऽपि चन्द्रस्योद्दीपनविभावतातिशयप्रतिपादनार्थं योग उक्तः । यथा वा पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरास्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥५७८।। [नवसाहसाङ्कचरित १.२२] तथा न तज्जलं यत्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ।।५७९।। [भट्टि० २.१९] अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्याप्तेरयोगेऽपि योग उक्तः । यथा वा उदयति विततोर्ध्वरश्मिरजावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलाम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥५८०|| [शिशुपालवध ४.२०] अत्र वारणेन्द्रलीला गिरिर्वहतीत्यसंबन्धेऽपि संबन्धः यद् वा गिरिवारणेन्द्रगतयोर्लीलयोर्भेदेऽप्यैक्यमध्यवसितमिति । यथा वा दिवमप्युपयातानामाकल्पमकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्द्याः ॥५८१॥ [रुद्रट ९.६] अत्र दिवङ्गतकविगुणानां रमणायोगेऽपि योग उक्तः । तथा हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥५८२।। [रुद्रट ९.८] ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy