________________
२६२
[काव्यानुशासनम्
अत्र क्रियायाः।
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥५३४॥
[उद्भट ३.३] अत्र दर्शनक्रियाभावस्य । एवं च
हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥५३५॥
[भट्टि० २.४७] तथा
'अकालसन्ध्यामिव धातुमत्ताम् ॥५३६॥ [कुमार० १.४] तथा
आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥५३७॥
[कुमार० ३.५४]
तथा
अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धना विकलाम् । रतिमिव मन्मथरहितां श्रियमिव हरिवक्षस: पतिताम् ॥५३८॥
[कुट्टनीमत २५८]
तथा
२०
। 'स्थितः पृथिव्या इव मानदण्डः' ॥५३९॥
[कुमार० १.१] इत्यादावुत्प्रेक्षाबुद्धिर्न विधेया । यद्यप्येषु स्वरूपतो विशेषणतश्चोपमानं कल्पितं तथाप्युपमैव । उपमानोपमेययोः साधर्म्यस्य तद्वाचकानां च प्रतीयमानत्वात्. ।
११७) सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् ॥५॥ ___ सादृश्ये निमित्ते सति भेदेन विषयविषयिणोर्निर्देशेन आरोपोऽतथाभूतेऽपि तथात्वेनाध्यवसायो रूपयत्येकतां नयतीति रूपकम्, आरोप्यमाणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात् । सादृश्यग्रहणं कार्यकारणभावादिनिमित्तान्तरव्युदासार्थम् । तेनायुघृतमित्यादौ न रूपकम् । भेदग्रहणमभेदारोपनिरासार्थम् । तत्र ह्यतिशयोक्तिर्वक्ष्यते । तच्च एकनमेकं चारोपस्य विषयो यत्र तत्तथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org