SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २६० [काव्यानुशासनम् अत्रैकस्यैवोपमानत्वोपमेयत्वेऽनन्वयः । उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । - तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥५२९।। [शिशुपाल० ३.८] अत्रासद्भूतस्योपमानसम्भावनादुत्पाद्योपमा । ___ तासां तु पश्चात् कनकप्रभाणां काली कपालाभरणा चकाशे । - बलाकिनी नीलपयोदराजिः पुर:परिक्षिप्तशतहदेव ॥५३०॥ ___ [कुमार० ७.३९] अत्र यथेष्टं विशेषणैरुपमेयं परकिल्प तादृशमेव सिद्धमुपमानमुपात्तमिति कल्पितोपमेत्यादौ । आसां १० हि पृथग्लक्षणकरण एवंविधवैचित्र्यसहस्रसंभवादतिप्रसङ्गः स्यादिति । ११६) असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा ॥४॥ प्राकरणिकेऽर्थेऽसन्तो ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां सम्भावनं तद्योगोत्प्रेक्षणमुत्प्रेक्षा। सा च इव-मन्ये-शङ्के-ध्रुवं-प्रायो-नूनम्-इत्यादिभिः शब्दै?त्यते । यथा बलं जगद्ध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि । V इतीव संचित्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ ॥५३१॥ अत्र रोषलक्षणस्य गुणस्योत्प्रेक्षा । 1 / असन्तोषादिवाकृष्टकर्णयोः प्राप्तशासनः । स्वधाम कामिनीनेत्रे प्रसारयति मन्मथः ॥५३२॥ २० अत्र संतोषगुणाभावस्य - वियति विसर्पतीव कुमुदेषु बहूभवतीव योषिताम् । प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिषु ॥ अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु । ध्वजपटलपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥५३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy