________________
२५६
[काव्यानुशासनम् यथा वा- सूर्यांयति सुघारश्मिमनाथति मृतायते । - मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥५१६।।
[स.कं. ४/७] अत्र नामघातुवृत्तौ कर्माधाराभ्यां क्यनि कर्तु:क्विपि क्यङि च इवलोपः । द्विलोपे यथा
ढुंढुल्लिंतु मरीहसि कंटयकलिआई केअइवणाई ।
मालइकुसुमसरिच्छं भमर भमंतो न पाविहिसि ॥५१७॥ [का.प्र.१०.४०८] अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः । तथा
परिपन्थिमनोराज्यशतैरपि दुराक्रमः ।
संपरायप्रवृत्तोऽसौ राजते राजकुञ्जरः ॥५१८॥ [का.प्र.१०.४०७] १० अत्र समासे धर्मस्येवस्य च लोपः । यथा वा
___ अरातिविक्रमालोकविकस्वरविलोचनः ।
V कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥५१९॥ [का.प्र.१०.४०९] अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा उपमेयः । स चेवादिश्च लुप्तः । आचार-लक्षणश्च धर्मः क्यन्प्रत्ययेन साक्षादभिहितः । तथा
सविता विधवति वधुरपि सवितरति तथा दिनन्ति योमिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥५२०॥
[का.प्र.१०.४०६] अत्र नामधातुवृत्तौ धर्मस्योपमावाचकस्य च लोपः। त्रिलोपे यथा-मृगनयनेति । मृगस्य नयने इति प्रथम २० तत्पुरुषस्ततो मृगनयने इव नयने यस्या इति उष्ट्रमुखादित्वाद् बहुव्रीहिः । अत्र गुणद्योतकोपमानशब्दानां
लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमास्यैष विषयो न त्वस्योपमासमासस्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः । केचित्तु अयःशूलेनान्विच्छ-त्यायःशूलिक इत्यादौ क्रूराचारोपमेयतैक्ष्ण्यधर्मेवादीनां लोपे त्रिलोपिनीमुपमामुदाहरन्ति, तन्न युक्तम् । क्रूरस्याचारस्यार्थान्वेषणोपायादेरयः शूलतयाध्यवसानादतिशयोक्तिरेवेयम् । एवं दाण्डाजिनिक इत्यादिष्वपि द्रष्टव्यम् ।
मालोपमादयस्तूपमाया नातिरिच्यन्य इति न पृथग् लक्षिताः । तथा हि
सोह व्व लक्खणमुहं वणमाल व्व विअडं हरिवइस्स उरं । कित्ति व्व पवणतणयं आण व्व बलाई से वलग्गए दिट्टी ॥५२१॥
सेतुबन्ध १.४८] [का.प्र. ४.१९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org