SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ २५४ [काव्यानुशासनम् अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे यथा अनाधिव्याधिसंबाधममन्दानन्दकारणम् । - न किञ्चिदन्यदस्तीह समाधिसदृशं सखे ॥५१०॥ ५ अत्र समासे उपमासस्यानिर्देशः । तथा राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । / रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ॥५११।। [काव्यादर्श; २/१६] अत्रेवेन नित्यसमासे धर्मलोपः । तथा शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भाग भिरामोरूः ॥५१२॥ [रुद्रट ८.२०] अत्र बहुव्रीहौ उपमावाचकलोपः । तथा मृधे निदाघधर्माशुदर्श पश्यन्ति तं परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥५१३।। [का.प्र.१०/४०५] अत्र नित्यसमासे 'कर्मकोणमि' इवलोपः । तथा "हंसो ध्वासविरावी स्यादुष्ट्रकोशी च कोकिलः । खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्मिनि ॥५१४।। [स.कं. ४/५] अत्र नित्यसमासे कर्तरि णिनि चोपमवाचकलोपः । यथा पूर्णेन्दुकल्पवदना मृणालीदेश्यदोलता । चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते ॥५१५।। २५ अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्च कल्पबादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु पूर्णेन्दुरिवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पबादीनां स्मरणात् । ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छायां भजते तथापि प्रातीतिकेन रूपेणोपमैव । तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy