________________
१५
२४४
[काव्यानुशासनम् गुणक्रियासाम्ये सा भविष्यतीति चेत्, न। अर्थश्लेषस्य निर्विषयत्वप्रसङ्गात् । अथ 'दिशः प्रसादयन्नेषः' (पृ. २९२) इत्यादौ वक्ष्यमाण उपमा-विरहितोऽर्थश्लेषस्य विषयः कल्प्यते । तद् द्वयोरप्यन्यत्र लब्धसत्ताकयोरेकत्र संनिपाते संकरतैव प्राप्नोति । गुणक्रियासाम्यमुपमा शब्दसाम्यं तु श्लेष इति विशेषस्यानभिधानाच्छब्दसाम्यमुपमाया विषयः । श्लेषस्य तूपमया विरहित इति 'स्वयं च पल्लवा-' (पृ. २४२) इत्यादावुपमैव न्याय्या। एवं च-'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका' (उद्भट ४.१७) इत्यादौ न विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोध एव । अत्र हि श्लेषस्य प्रतिभामात्रं न तु प्ररोहः । न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः । तस्मादेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव।
११०) अर्थैक्ये व्यादिभाषाणां च ॥७॥
द्वित्रिचतुष्पञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिर्द्वयादिभाषाश्लेषः । तत्र संस्कृतप्राकृतमागधपिशाचशूरसेनापभ्रंशभाषाणां द्वियोगे पञ्चदश, त्रियोगें विशतिः, चतुर्योगें पञ्चदश, पञ्चयोगे षट्, षड्योगे एकः । सर्वमिलने भाषाश्लेषस्य सप्तपञ्चाशद् भेदाः । एते च पूर्वोक्तभाषाश्लेषभेदे भिन्नार्थत्वेऽपि द्रष्टव्याः । संस्कृतप्राकृतयोर्योगे यथा
सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं वोढुं तव चित्तमसह मे ॥४९२॥
मालतीमाधव ६.१०] संस्कृतमागध्योर्यथा
शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा ।
अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥४९३।। २०
__[रुद्रट ४.१८] शलन्तु गच्छन्त्वधिरोहन्त्वित्यर्थः । शं शुभं वा यान्तु । संकीर्णाः पापकारिण इति यावत् । विशङ्काः सन्तो वशं बन्धनं वा विशन्तु । यतोऽविद्यमानोपशमावस्थं यथा भवेत्येवमेते खला अकल्याणं दिशन्त्येव । संस्कृतपैशाच्योर्यथा
चम्पककलिकाकोमल-कान्तिकपोलाथ दीपिकानङ्गी । २५ इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥४९४॥
[रुद्रट ४.१९] संस्कृतसौरसेन्योर्यथा
अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे ॥४९५।।
[रुद्रट ४.२०] सुपीवरेत्याद्यपि संबोधनपदम् ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org