________________
२४२
[काव्यानुशासनम् हरिणीभूतेति मृगीभूता, श्यामा संपन्नेति च । अत्र च्विङीप्रत्यययोर्भङ्गः ।
विषं निजगले येन बभ्रे च भुजगप्रभुः । देहे येनाङ्गजो दधे जाया च स जयत्यजः ॥४८८॥
[स. कं. २.१५६] अत्र गिलितं, निजे गले च दग्धो वपुषि चेति स्यादित्यादिविभक्त्योर्भङ्गः ।
प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥४८९।।
[तिलकमञ्जरी २] [स.कं. २.१५८, १.१६३] अत्रैकवचनबहुवचनयोर्भङ्गः । एषामेव वर्णादीनामभङ्गाद् यथा
असावुदयमारूढ: कान्तिमान् रक्तमण्डलः । v राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥४९०॥
[काव्यादर्श २.३११] उदयः शक्त्युपचयो गिरिविशेषश्च । रक्तमण्डलोऽनुरक्तप्रकृतिररुणबिम्बश्च । राजा नृपतिश्चन्द्रश्च । मृदुभिरखेदावहै: करैर्दण्डादिभिः किरणैश्चेत्यभङ्गः शब्दलेषः । १५ अत्र प्रकरणादिनियमाभावाद् द्वावप्यर्थी वाच्यौ । न चायमर्थालङ्कार इति वाच्यम् । अन्वयव्यतिरेकाभ्यां
शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि-उदयादिशब्दप्रयोगेऽलङ्कारस्तदर्थशक्त्युपचयगिर्यादिप्रयोगे तु नेति तद्भावतदभावानुविधायित्वात् शब्दालङ्कार एवायम् ।
स्वयं च पल्लवाताम्रभास्वत्करविराजिनी । प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥४९१॥
[उद्भट ४.१५] इत्यादौ तु सङ्करत्वमेव युक्तम् । अथवा न्यायपरीक्षायामुपमात्वमेव ।
तथा हि-यथा गुणक्रियासाम्य उपमा, तथा शब्दमात्रसाम्येऽपि दृश्यते । ‘सकलकलं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव' इत्यादौ । न च तत्र श्लेषत्वं वक्तुं युक्तम् । पूर्णोपमाया निर्विषयत्वापत्तेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org