SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २२२ [काव्यानुशासनम् पदैकस्य सकृद् यथा वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । V सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ॥४४२।। __ [काव्यप्रकाश, उल्लास ९, श्लोक ३६०, सूत्र ११३; वृत्तौ] असकृद् यथा न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । - कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥४४३॥ [सुभाषितावलौ (२३६) रविगुप्तस्य] अनेकस्य सकृद् यथा यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥४४४।। [काव्यप्रकाश उ. ९, श्लोक. ३५९, सूत्र ११२ वृत्तौ;] असकृद् यथा किञ्चिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशम् । दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः । ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः । सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोकः कृतो वर्तते ॥४४५।। १०६) सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् ॥३॥ आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां स्वरसहितव्यञ्जनानामुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये क्रमैक्ये च यमौ द्वौ समजातौ तत्प्रतिकृतिर्यमकम् । तेनैकस्याक्षरस्य द्वयोर्बहूनां वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः । - मधुपराजिपराजिमानिनी... ॥४४६।। हरविजय ३.२] इत्यादावुभयेषामनर्थकत्वे ..... स्फुटपरागपरागतपङ्कजम् । ॥४४७॥ [शिशुपाल० ६.२] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy