SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चमोऽध्यायः ॥ _ 'शब्दार्थों सालङ्ककारौ काव्यम्' इत्युक्तम् । तत्रालङ्काराणाम् ‘अङ्गाश्रिता अलङ्काराः' इति सामान्यलक्षणमुक्तम् । अथ विशेषलक्षणस्यावसरस्तत्रापि शब्दालङ्काराणां षण्णां तावदाह १०४) व्यञ्जनस्यावृत्तिरनुप्रासः ॥१॥ व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः पुनः पुनर्निबन्धो रसाद्यनुगतः ५ प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किञ्चिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते । अनकस्य तु सकृदसकृच्च । तत्रैकस्यासकृदावृत्तिर्यथा अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताझ्याः ।। ' कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥४३३।। १० अनेकस्य सकृदावृत्तिर्यथा ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥४३४॥ [सुभाषितावलौ (२१५३) भगवद्वाल्मीकिमुनेः] अत्र 'रु-रि-न्द-न्दि'-इत्यादेरनेकस्य सकृदावृत्तिः । यथा वा नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥४३५।। [रघु० ७.२५] अत्र द्वयोर्द्वयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा 'धूसरितसरिति' ॥४३६॥ इति । २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy