________________
२१२
[काव्यानुशासनम्
न पुनरेवं यथा
अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥४२६।।
अत्र शृङ्गारप्रतिकूला वर्णाः ।
बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां किं त्वं पक्षान्तवान्तैर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः । एषा प्रोद्वृत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावाग्नेॉम्नि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥४२७॥
_[सुभाषितावलौ (१७१६) धाराकदम्बस्य] अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा। ओजसो लक्षणमाह९९) दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् ॥५॥
दीप्तिरुज्ज्वलता, चित्तस्य विस्तार इति यावत् । क्रमेणेति वीराद् बीभत्से ततोऽपि रौद्रे, तेषामङ्गेऽद्भुते च सातिशयमोजः ।
एतद्यञ्जकानाह१००) आद्यतृतीयाक्रान्तौ द्वितीयतुर्यों युक्तो रेफस्तुल्यश्च टवर्गशषा वृत्तिदैर्ध्यमुद्धतो
गुम्फश्चात्र ॥६॥ आद्येन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथा उपरि उभयत्र वा येन केनचित्संयुक्तो रेफस्तुल्यश्च वर्णो वर्णेन युक्तस्तथा टवर्गोऽर्थाण्णकारवर्जः, शषौ च । दीर्घः समासः, कठोरा रचना च । २० अनौजसि । ओजसो व्यञ्जिकेत्यर्थः । यथा
मूर्जामुद्दृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशांह्रिप्रसादोपनतजयजगज्जातुमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥४२८॥
[हनुमन्नाटक ८.४८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org