SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २०८ [काव्यानुशासनम् परिवृत्तोऽनुवादो विधिना यथा प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशां अकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाद्य दोःशालिनां अपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥४२३॥ [वेणी० ३.३४] अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरुक्तः । प्रयत्नेन परिबोध्यसे इति विधौ वाच्ये परिबोधित इत्युमुक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थबलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रणीतम् । अथापवादानाह९२) नानुकरणे ॥८॥ दोषा इत्यनुवर्तते । अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव दर्शितम् । ९३) वक्त्राद्यौचित्ये च ॥९॥ वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिम्ना न दोषो न गुणः । तथोदाहृतम् । ९४) क्वचिद् गुणः ॥१०॥ वक्त्राद्यौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ दोषविवेचनस्तृतीयोऽध्यायः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy