SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २०४ [काव्यानुशासनम् द्विषजयस्य हि नयमूलत्वं स्थितं दण्डनीतौ । कामशास्त्रविरुद्धत्वम्, यथा तवोत्तरौष्ठे बिम्बोष्ठि दशनाङ्को विराजते ॥४१४॥ उत्तरौष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनरदनस्थानानीति हि कामशास्त्रे स्थितम् । मोक्षशास्त्रविरुद्धत्वम्, यथा 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसम्पदः' ॥४१५॥ एतस्यार्थस्य मोक्षशास्त्रेऽस्थितत्वाद्विरुद्धत्वम् । - त्यक्तपुनरत्तत्वम्, यथा'लग्नं रागावृताङ्ग्याः ' (पृ. १४४) ॥४१६॥ [ ] इति। अत्र विदितं तेऽस्त्वित्युपसंहतोऽपि तेनेत्यादिना पुनरुपात्तः । क्वचिद्गुण: शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संप्लृष्यन्त्यथ कालकूटपटलीसंवाससं दूषिताः । 1. किं प्राणान्न हरन्त्युत प्रियतमासंजल्पमन्त्राक्षरैरक्ष्यन्ते किमु मोहमेमि हहहा नो वेधि कामे गतिः ॥४१७॥ [अभिनवगुप्तस्य] अत्र ससन्देहालङ्कारस्त्यक्त्वा त्यक्त्वा पुनरुपात्तो रसपरिपोषाय । ____परिवृत्तौ विनिमयितौ नियमानियमौ सामान्यविशेषौ विध्यनुवादौ च यत्र । तद्भावस्तत्त्वम् । तत्र परिवृत्तो नियमोऽनियमेन, यथा यत्रानुल्लिखिताक्षमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा। याताः प्राणभृतां मनोरथगतीरुल्लञ्च यत्सम्पद(स्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम्)॥४१८॥ अत्रच्छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता इति नियमे वाच्ये तस्याभास इत्यनियम उक्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy