SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २०२ [काव्यानुशासनम् यथा वा उपमायाम् ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ॥४०९।। अत्र काव्यस्य शशिना, अर्थानां च रश्मिभिः साधर्म्यं न प्रसिद्धम् । तथा., चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः । उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा ॥४१०। V १५ अत्र मध्यगतचन्द्रिकयारविन्दस्योनिद्रत्वमसंभवीति प्रसिद्धिविरुद्धत्वम् । कलाचतुर्वर्गशास्त्राणि विद्या । कलाश्च गीतनृत्तचित्रकर्मादिकाः । तत्र गीतविरुद्धत्वं यथा श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥४१॥ [शिशुपाल० ११.१] श्रुतिसमधिकमिति श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः । पीडयन्त इति । श्रुतिह्रासेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्य षड्जमिति । भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्नायात् । अत्र भिन्नषड्जेन मागधी गीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवदसंभव एव । दूरे पुनः श्रुतिसमधिकत्वम् । यतो भिन्नषड्जस्येदं लक्षणम् (३१) धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । पड्जोदीच्यवतीजातेर्भिन्नषङ्ज उदाहृतः ॥ [ एवं कलान्तरेष्वप्युदाहार्यम् । ___ चतुर्वर्गे धर्मशास्त्रविरुद्धत्वम्, यथा___ सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च ॥४१२।। [रुद्रट ११.६] अत्र विप्र इति । क्षत्रियस्य हि तत्राधिकारः । अर्थशास्त्रविरुद्धत्वम. यथा अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ॥४१३॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy