SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ १८८ [काव्यानुशासनम् अथ ‘स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षता (त्) क्षतायुष्मान्' ॥३६३|| इत्यादावव्यहितत्वेऽपि दृश्यते । ५ तर्हि, अत्रैव भिन्नविभक्तिकानां सोऽस्त्वित्यलम् । यथा वा किं लोभेन विलचितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा। मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरुः माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥३६४॥ [उदात्तराघवे] १० अनार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरे-ष्वप्युदाहर्यम् । विरुद्धबुद्धिकृत्त्वं पदस्य, यथा गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः । - सविधे निरहङ्कारः पायाद्वः सोऽम्बिकारमणः ॥३६५।। अत्राम्बिकाया गौर्या रमण इति विवक्षितं मातृरमण इति तु विरुद्धां धियमुत्पादयति । तथा सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी। मिवात्मानं मालामुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सहगणै हसन् वो भद्राणि द्रढयतु मृडानीपरिवृढः ॥३६६॥ अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीतिं करोति । २० तथा चिरकालपरिप्राप्तिलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदघाति गलग्रहम् ॥३६७।। २५ अत्र कण्ठग्रहमिति वाच्यम् । वाक्यस्य यथा अनुत्तमानुभावस्य परैरपिहितौजसः । अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥३६८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy